Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 508
________________ ५०५ उद्देशकः-१०, मूलं-२५१, [ भा. ४४४२] भा. [४४४२] किंवा मारेयव्वो अहयंतो वेह डेव रुक्खाउ। अतिपरिणामो भणती इयहेऊ अम्ह वेसिच्छा ।। वृ. दृष्टवा महतो महीरुहान् गणिक आचार्यो ब्रूते-अस्मिन्नुच्चैस्त्वेन तालप्रमाणे वृक्षे विलग्य तत आत्मनं डिप, प्रपातं कुर्वित्यर्थः । एवमुक्तेन तत्रापरिणामको ब्रूते न वर्तते वृक्षे विलगितुं साधोः सचित्तत्वादृक्षस्य प्रपातं च कुर्वन् आत्मविराधना भवति। स च भगवता निषिद्धा कि वाहं किमुपायेन मारयितव्योऽभिप्रेतो ब्रूथ-वृक्षादात्मानं डिपेति अतिपरिणामकः पुनरिदं भणतिइत्येवं भवतु करोमि प्रपातमिति भावोऽस्माकप्येषा इच्छा वर्तते। भा.[४४४३] बेइ गुरू अहतंतू अपरिच्छियत्थे पभाससे एवं । किं वमएतं भणितो आरुहरुक्खे सचित्ते ॥ वृ.अथानन्तरमतिपरिणामकं शिष्यं ब्रूते अपरीक्षिते अपरिभाषिते मद्वचनस्यार्थे त्वमेवमुक्तप्रकारेण प्रभाषसे यथा करोमि प्रपातमस्माकमप्येषेच्छा वर्तते। अपरिणामकमधिकृत्य ब्रूतेत्वं वा मया किमेवं भणितो यथा सचित्ते वृक्षे आरोह येनोच्यते न वर्तते साधोवृक्षे विलगितुमिति। किन्त्वेतन्मयोक्तं तदेवाहभा.[४४४४] तवनियमनाणरुक्खं आरुहिउं भवमहण्णवापन्न । संसारगम्म कूलं डेवे हंती मए भणितो ।। वृ. तपो नियमज्ञानमयं वृक्षं भवार्णवापन्नं भवसमुद्रमध्यप्राप्तमारुह्य संसारगर्ता कूलं डिप उल्लङ्घयेति मया भणितः। भा. [४४४५] जो पुन परिणामो खलु आरुह भणित्तो विसोवि चित्तेइ। नेच्छंति पावमेते जीवाणं थावरादीणंपि ।। भा.[४४४६] किं पुन पंचेंदीणं तं भवियव्वेत्थकारणेणं तु । आरुहण ववसियं तू वारेइ गुरू ववत्तो । वृ. यः पुनः खलु परिणाम आज्ञापरिणामकः स आरोहेति भणितश्चिन्तयति-नेच्छन्ति पापमेते मदीया गुरवो जीवानां स्थावराणामपि किं पुनः पञ्चेन्द्रियाणां तस्मादत्र कारणेन भवितव्यमेवं विचिन्त्यारोहणे व्यवस्थितः तमारोहणव्यवस्थितं गुरुरप्यवष्टभ्य बाहौ धृत्वा वारयति तदेवमुक्तं वृक्षे परीक्षणमधुना बीजेषु तदाहभा.[४४४७] एवानेह य बीयाई, भणितो पडिसेहे अपरिणामो। अइपरिणामगो पोट्टल बंधूण आगतो तहियं ।। वृ. एवममुना प्रकारेण बीजानि आनयतेत्युक्ते अपरिणामः प्रतिषेधयति न कल्पन्ते बीजानि ग्रहीतुमिति यस्त्वतिपरिणामक: स बीजान पोट्ठलं बध्या तत्र गुरुसमीपे समागतः। भा. [४४४८] तेवि भणिया गुरूणं भणिया नेह अमलिबीयाई। नविरोह समत्थाहं सचित्ताई व भणियाई ।। . वृ. तावद्योऽपरिणामको गुरुणा भणितो मया भणितमानय अम्लिकाबीजानि काञ्जिकिनि बीजानि, यदि वा सचित्तानि विध्वस्तयोनिमयानि, यानि नविरोहसमर्थानि तान्यानयेति भणितानि। भा. [४४४९] तत्थवि परिणामो तू भणती आनेसि केरिसाइं तु । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564