Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५३२
व्यवहार-छेदसूत्रम्-२- १०/२६५ त्पादानुगुण्येन उत्क्रमेणपि कथ्यते । यथा शस्त्र परिज्ञायामेकेन्द्रियाणां जीवत्वप्रसाधनविधौ पूर्व प्रथमोद्देशके वनस्पतिः कथ्यते। अन्तिमे चोदशके वायुकायिकः। तत्र प्रथमत उत्क्रमेण वनस्पतीनां जीवत्वख्यापनार्थमाहभा.[४६२२] पत्तंति पुप्फति फलं वदंती, कालं वियाणंति तहेदियत्थे।
जाती य वड्डी य जरा य जेहिं, कहं न जीवा उ भवंति ते ऊ।। वृ.ये पत्रयन्ति पत्राणि मुञ्चन्ति। पुप्फंति पुष्पभाजो भवन्ति फलं च ददति कालं च स्वपत्रपुष्पफलनिमित्तं जानन्ति। इन्द्रियार्थांश्च गीतादीन् ये विजानन्ति बकुलादीनं तथा दर्शनात्। तथा तेषां जातिवृद्धिर्जरा च, ते कथं न जीवा भवन्ति? भवन्त्येवेति भावः। पुरुषादिधर्माणां सर्वेषामपि तत्रोपम्यमानत्वात्, प्रयोगश्च वनस्पतयो जीवा जातिजरावृद्ध्याधुपेतत्वात् मनुष्यवत्भा.[४६२३] जाहे ते सद्दहिया ताहे कहिज्जति पुढविकाइया।
जह उ पवालग लोणा उवल गिरीणं च परिवुड्डी ।। वृ. यदा ते वनस्पतयो जीवत्येन अद्धिता भवन्ति तदा पृथिवीकायिका जीवाः (कथ्यन्ते, यथा) प्रवालादिषु परिवृद्धिदर्शनात्। भा.[४६२४] कललंडरसादीया जह जीवा तहेव आउजीवावि।
जोइंगणखज्जुए वा जहुण्ह तह तेउ जीवावि॥ वृ. यथा कललं गर्भप्रथमावस्थारूपमण्डरस इत्येवमादयो जीवास्तथैवाप्कायजीवा अपि प्रतिपत्तव्याः, प्रयोगः अप्कायिका जीवा अनुपहत्वे सति द्रवत्वात् कललं च रसादिवत्। तथा यथा ज्योतिरङ्गणः स्वद्योतकः यथा वा ज्वरिते उषमेति स जीवनस्तथा तेजोजीवा अपि। प्रयोगभावना त्वेवम्-तेजस्कायिका जीवा असूर्यकिरणत्वे सत्यूषमधर्मोपेतत्वात्। भा.[४६२५] जाहे सद्दहिते तेऊ वाऊ जीवा से ताहे सीसंति।
सत्थपरिण्णाएवि य नुक्कमणं तु एयट्ठा॥ वृ. यदा तेजस्कायिकान् जीवत्वेन श्रद्दधाति तदा से तस्य वायवो जीवाः शिष्यन्ते तथा वायवो जीवा अपरे प्रेरितत्वे सति तिर्यग्गति गमनात् गवादिवत् शस्त्रपरिज्ञायामप्युत्क्रमकरणं पूर्वं वनस्पत्युदेशस्यान्ते वायुकायिकोद्देशस्य करणमित्यर्थः । तदर्थं सुखेन जीवत्वप्रतिप्रत्त्यर्थं; उपसंहारमाहभा.[४६२६] एस परिणामगो भणितो अहुणा उजम्मं वुच्छामि।
सो दुविहो नायव्वो भासाए सरीरजम्मो उ॥ वृ.एष द्विविधोऽपि परिणामक उक्तोऽधुना जडं वक्ष्ये। स जड्डो द्विविधो ज्ञातव्य, तद्यथाभाषणायां भाषाजड्डः शरीरजड्डश्च।। भा.[४६२७] जलमुगएलमूगो मम्मणमूगो य भासजड्डो य। •
दुविहो सरीरजड्डो तुल्लो करणे अनिपुणो अ। वृ.भाषाजड्डस्त्रिविधस्तद्यथा-जडमूक एडकमूक मन्मनमूकश्च। शरीरजड्डो द्विविधस्तद्यथाशरीरेण क्रियायामनिपुणश्च। भा.[४६२८] पढमस्स नत्थि सद्दो जलमज्झे व भासए।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564