Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 533
________________ ५३० व्यवहार-छेदसूत्रम्-२- १०/२६५ नार्थमिदमाहभा.[४६०७] तस्सिदियाणि पुव्वं सीसंते जइ उताणि सद्दहइ। तो से नाणावरणं सीसइ ताहे दसविहं तु ।। वृ. तस्य दृष्टान्तपरिणमास्य पूर्वमिन्द्रियाणि श्रोत्रादीनि शिष्यन्ति । तत्र यदि तानीन्द्रियाणि श्रद्दधाति तत: तमेतस्य ज्ञानावरणं दसविधं शिष्यते। कथमित्याहभा.[४६०८] इंदियावरणं चेव नाणावरणाइयं । तो नाणावरणं चेवमाहियं तु दुपंचहा।। वृ.इन्द्रियावरणं ज्ञानावरणं च तत्रेन्द्रियावरणं नाम इन्द्रियविषयशब्दादिसामान्योपयोगावरणं, ज्ञानावरणं इन्द्रियविषयेष्वेवशब्दादिषु विशेषोपयोगावरणमिन्द्रियावरणं, ज्ञानावरणंच श्रोत्रेन्द्रियादिभेदतः प्रत्येकं पञ्चप्रकारमेव ज्ञानवरणं द्विपञ्चधा दशप्रकारमाख्यातम्। तानेव दश भेदा नाहभा.[४६०९] सोयावरणं चेव नाणावरणंच होइ तस्सेव। एवं दुयभेएणं नायव्वं जाव फासतत्ति ।। वृ.श्रोतावरणं तथा तस्यैव श्रोतस्य ज्ञानावरणमेवं द्विकभेदेन तावत् ज्ञातव्यं यावत्स्पर्शस्तद्यथाचक्षुरिन्द्रियावरणं चक्षुरिन्द्रियज्ञानवरणं घ्राणेन्द्रियावरणं घ्राणेन्द्रियज्ञानावरणं रसनेन्द्रियावरणं रसनेन्द्रियज्ञानावरणं स्पर्शेन्द्रियावरणं स्पर्शेन्द्रियज्ञानावरणमिति । साम्प्रतमिन्द्रियावरणस्य विज्ञानावरणस्य विषयविभागार्थमिदगाहभा.[४६१०] बहिरस्स उवित्राणं आवरियत्तउण सोयमावरियं। अपटुप्पण्णो बालो अतिवुड्डो तह असन्नी वा। भा.[४६११] विनाणावरियं तेसिं कम्हा जम्हा उतेसणं तावि। नवि जाणते किमयं सद्दो संखस्स पगहस्स। वृ. बधिरस्य विज्ञानं श्रोत्रेद्रियविज्ञानमावृतं सामान्यतः शब्दमात्रश्रवणेऽपि तद्गतविशेषापरिज्ञानात्। न तु श्रोत्रामावृतं सामान्यतः शब्दमात्रश्रवणात्तथा योऽपटुप्रज्ञो बालो यश्चातिवृद्धो यो वाऽसंज्ञी अमनस्क: पंचेन्द्रियः एतेषां विज्ञानमावृतं कस्मात् यस्मात् ते शृण्वन्तोऽपि नो वै जानते। किमयं शब्दः शंखस्य उत पटहस्येति। भा.[४६१२] किं ते जीवमजीवाजीवत्ति य एव तेन उदियम्मि। भण्णइ एव वियाणसु जीवा चउरिदिया बिति॥ वृ.किं ते बधिरादयो जीवा उताजीवास्तत्र जीवा एवेति तेनोदितं भण्यते एवं बधिरादिवत् चतुरिन्द्रिया अपि जीवा इति विजानीहि श्रोतावरणमात्रेण जीवत्वाप्रच्युतेः। भा.[४६१३] एवं चक्खुदिय घाणिदिय जिभिदियोवघाएहि। एक्केक्कगहाणीए जावउ एगिदिया नेया॥ वृ.एवमेकैकहान्याएकैकन्द्रियपरिहानितः चक्षुरिन्द्रिय घ्राणेन्द्रिय जिह्वेन्द्रियोषघातैः क्रमेण त्रीन्द्रियादयः तावत् ज्ञेया यावदेकेन्द्रियाः चक्षुरिन्द्रियोपघाते त्रीन्द्रिया घाणेन्द्रियोपघातेऽपि द्वीन्द्रियाः जिह्वेन्द्रियोपघातेऽप्येकेन्द्रियाः । इह पूर्वं विज्ञानावरणेऽपीन्द्रियमनावृतमुक्त मिदानीमिन्द्रियावरणेऽपि विज्ञानमनावृतमुपदर्शयति। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564