________________
५३०
व्यवहार-छेदसूत्रम्-२- १०/२६५ नार्थमिदमाहभा.[४६०७] तस्सिदियाणि पुव्वं सीसंते जइ उताणि सद्दहइ।
तो से नाणावरणं सीसइ ताहे दसविहं तु ।। वृ. तस्य दृष्टान्तपरिणमास्य पूर्वमिन्द्रियाणि श्रोत्रादीनि शिष्यन्ति । तत्र यदि तानीन्द्रियाणि श्रद्दधाति तत: तमेतस्य ज्ञानावरणं दसविधं शिष्यते। कथमित्याहभा.[४६०८]
इंदियावरणं चेव नाणावरणाइयं ।
तो नाणावरणं चेवमाहियं तु दुपंचहा।। वृ.इन्द्रियावरणं ज्ञानावरणं च तत्रेन्द्रियावरणं नाम इन्द्रियविषयशब्दादिसामान्योपयोगावरणं, ज्ञानावरणं इन्द्रियविषयेष्वेवशब्दादिषु विशेषोपयोगावरणमिन्द्रियावरणं, ज्ञानावरणंच श्रोत्रेन्द्रियादिभेदतः प्रत्येकं पञ्चप्रकारमेव ज्ञानवरणं द्विपञ्चधा दशप्रकारमाख्यातम्। तानेव दश भेदा नाहभा.[४६०९] सोयावरणं चेव नाणावरणंच होइ तस्सेव।
एवं दुयभेएणं नायव्वं जाव फासतत्ति ।। वृ.श्रोतावरणं तथा तस्यैव श्रोतस्य ज्ञानावरणमेवं द्विकभेदेन तावत् ज्ञातव्यं यावत्स्पर्शस्तद्यथाचक्षुरिन्द्रियावरणं चक्षुरिन्द्रियज्ञानवरणं घ्राणेन्द्रियावरणं घ्राणेन्द्रियज्ञानावरणं रसनेन्द्रियावरणं रसनेन्द्रियज्ञानावरणं स्पर्शेन्द्रियावरणं स्पर्शेन्द्रियज्ञानावरणमिति । साम्प्रतमिन्द्रियावरणस्य विज्ञानावरणस्य विषयविभागार्थमिदगाहभा.[४६१०] बहिरस्स उवित्राणं आवरियत्तउण सोयमावरियं।
अपटुप्पण्णो बालो अतिवुड्डो तह असन्नी वा। भा.[४६११] विनाणावरियं तेसिं कम्हा जम्हा उतेसणं तावि।
नवि जाणते किमयं सद्दो संखस्स पगहस्स। वृ. बधिरस्य विज्ञानं श्रोत्रेद्रियविज्ञानमावृतं सामान्यतः शब्दमात्रश्रवणेऽपि तद्गतविशेषापरिज्ञानात्। न तु श्रोत्रामावृतं सामान्यतः शब्दमात्रश्रवणात्तथा योऽपटुप्रज्ञो बालो यश्चातिवृद्धो यो वाऽसंज्ञी अमनस्क: पंचेन्द्रियः एतेषां विज्ञानमावृतं कस्मात् यस्मात् ते शृण्वन्तोऽपि नो वै जानते। किमयं शब्दः शंखस्य उत पटहस्येति। भा.[४६१२] किं ते जीवमजीवाजीवत्ति य एव तेन उदियम्मि।
भण्णइ एव वियाणसु जीवा चउरिदिया बिति॥ वृ.किं ते बधिरादयो जीवा उताजीवास्तत्र जीवा एवेति तेनोदितं भण्यते एवं बधिरादिवत् चतुरिन्द्रिया अपि जीवा इति विजानीहि श्रोतावरणमात्रेण जीवत्वाप्रच्युतेः। भा.[४६१३] एवं चक्खुदिय घाणिदिय जिभिदियोवघाएहि।
एक्केक्कगहाणीए जावउ एगिदिया नेया॥ वृ.एवमेकैकहान्याएकैकन्द्रियपरिहानितः चक्षुरिन्द्रिय घ्राणेन्द्रिय जिह्वेन्द्रियोषघातैः क्रमेण त्रीन्द्रियादयः तावत् ज्ञेया यावदेकेन्द्रियाः चक्षुरिन्द्रियोपघाते त्रीन्द्रिया घाणेन्द्रियोपघातेऽपि द्वीन्द्रियाः जिह्वेन्द्रियोपघातेऽप्येकेन्द्रियाः । इह पूर्वं विज्ञानावरणेऽपीन्द्रियमनावृतमुक्त मिदानीमिन्द्रियावरणेऽपि विज्ञानमनावृतमुपदर्शयति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org