SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ उद्देशक :- १०, मूलं - २६५, [ भा. ४६०० ] पत्तजहंते संभुजणा य भूतित्तिय विवेगो ।। वृ. शैक्षकस्य तिस्रो भूमयो वक्तव्याः । सूत्रोपात्तत्वात्तथा शैक्षका द्विविधाः परिणामका वक्तव्याः । द्वौ च जड्डौ तथा प्रात्राणि पात्रभूतान् त्यजति दोषा वक्तव्याः । संभोजना च तथा भूमित्रिकस्यं जलमूककरणजड्डलक्षणस्य विवेकः परित्यागो वक्तव्यः एष गाथाद्वारसंक्षेपार्थः । व्यासार्थस्तु प्रतिद्वारमभिधातव्यः । तत्र प्रथमतो भूमिद्वारमाह भा. [४६०१ ] सेहस्स तिन्निभूमी जहन्न तह मज्झिमा य उक्कोसा। राइदिव सत्त चउमासिया य छम्मासिया चेव ॥ वृ.शैक्षकस्य तिस्पो भूमयस्तद्यथा - जघन्या मध्यमा उत्कृष्टा च तत्र जघन्या सप्तरात्रिं दिवा, मध्यमा चातुर्मासिकी उत्कृष्टा षण्मासिकी। भा. [४६०२] ५२९ पुव्वोवपुराणे करणजयट्टा जहन्निया भूमी । उक्कोसा दुम्मेहं पमुच्च असद्दहाणं च । वृ. पूर्वमुपस्थ उपस्थितः पूर्वोपस्थ: स चासौ पुराणश्च पूर्वोपस्थपुराणस्तस्मिन् करणजयाय जघन्या भूमिर्भवति । इयमत्र भावना-य: पूर्वप्रव्रज्योत्प्रव्रजितः पश्चात्पुनरपि प्रव्रज्यां प्रतिपन्नवान् स सप्तमे दिवसे उपस्थापयितव्यः । तस्य दि यावद्भिर्दिवसैः पूर्वविस्मृतसामाचारीकरणमत्यन्तदुःप्रभवति । एष जघन्या भूमिर्दुर्मेधसमग्रदधानं च प्रतीत्य उत्कृष्टा षण्मासिकी भूमिः । भा. [४६०३] एमेव य मज्झमिया अनहिज्जंते य सद्दहंते य । भावियमेहाविस्सविकरणजयट्ठाय मज्झमिया ॥ वृ. एवमुक्ते उत्कृष्टे च अनधियाने अश्रद्दधाने च माध्यमिका: भूमिः प्रतिपत्तव्या । अथवा भावितस्यापि श्रद्दधानस्यापि मेधाविनश्चापि च करणजयार्थं मध्यमिका भूमिः । भा. [४६०४] आणा दिट्टंतेन य दुविहो परिणामगो समासेणं । आया परिणामो खलु तत्थ इमो होइ नायव्वो ।। वृ. सद्विविधः परिणामको भवति तद्यथा आज्ञया दृष्टान्तेन, तत्र समासेन संक्षेपेण आज्ञापरिणामः खल्वयं वक्ष्यमानो भवति तमेवाह भा. [ ४६०५ ] तमेव सच्चं नीसंकं, जं जिणेहिं पवेइयं । आणाए अक्खातो जिनेहिं परिणामगो ॥ वृ. तदेव सत्यं यज्जिनैः प्रवेदितमित्येवं यो निःशङ्कं श्रद्दधाति न च कारणं जानीते एष आज्ञया परिणामको जिनैराख्यातः । दृष्टान्तपरिणामकमाह भा. [४६०६ ] परोक्खं उगं अत्थं पच्चक्खेण उसाहयं । जिनेहिं एस अक्खातो दिट्टंतपरिणामगो ॥ वृ. परोक्षहेतुकं हेतुना लिङ्गेन गम्यं तं हेतुकमर्थं प्रत्यक्षेण प्रत्यक्षप्रसिद्धेन दृष्टान्तेन साधयन् आत्मबुद्धावारोपयन् यो वर्तते एष दृष्टान्तपरिणामको जिनैराख्यातो दृष्टान्तेन विवक्षितमर्थं परिणामयत्वात्मबुद्धावारोपयतीति दृष्टान्तपरिणामक इति व्युत्पत्तेस्तत्राज्ञापरिणामक आज्ञयैव कायान् श्रद्दधाति । दृष्टान्तपरिणामकस्तु दृष्टान्तेन श्रद्दधापयितव्य इति तस्य काय श्रद्धानोत्पाद22/34 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy