Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः - १०, मूलं - २६७, [ भा. ४६४२ ]
५३५
जम्मण परियागस्स उ विजाणणट्ठा इमं सुत्तं ॥
वृ. प्रव्रज्यापर्यायाऽनन्तरसूत्रेणो क्तोयत्र शिष्यः स्थाप्यते । संप्रति तस्यैव जन्मपर्यायस्य विज्ञानर्थमिदं सूत्रमित्येष सम्बन्धः । सूत्राक्षरगमनिका-न कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा क्षुल्लकं वा क्षुल्लिकां वा ऊनाष्टवर्षजातमुपस्थापयितुं वा संभोक्तुं वा मण्डल्यां, तथा कल्पते निर्ग्रन्थानां वा क्षुल्लके वा क्षुल्लिकां वा सातिरेकाष्टवर्षजातमुपस्थापयितुं वा उपास्थाप्य मण्डल्यां संभोक्तु वा अथ कस्माद्नाष्टं वर्षजातस्योपस्थापनादि न कल्पते। अत आहऊणट्ठए चरितं न चिट्ठए चालणीए उदगं वा । बालस्स य जे दोसा भणिया आरोवणा दोसा ॥
भा.[४६४३]
वृ. ऊनाष्टके नाष्टवर्षजाते बाले चालिन्यामुदकमिव चारित्रं न तिष्ठते तथा ये बालस्य दोषा भणिता या च बालस्योपस्थापने आरोपणा स प्रसजति । बालस्य दोषानाहकायवइमनोजोगो हवंति तस्स न वड्ढिया जम्हा ।
भा. [४६४४]
संबंध अनाभोगे उमे सहसा ववादेणं ॥
वृ. तस्य बालस्य कायवाङ्गमनोयोगा यस्मादनवस्थिता भवन्ति तस्मान्नोपस्थापयेत । यत्रैवापवादमाह-सम्बन्धिनमनाभोगे अवमे दुर्भिक्षे सहसाकारेणं संभोजनेऽपवादेनोपस्थापयेत् ऊनाष्टवर्षजातमपि । तत्र सम्बन्धिद्वारव्याख्यानार्थमाह
भा. [४६४५]
भुंजिस्से समयासद्धि नीयो निच्छइ संपयं ।
सोने संबंध कहं चिठेज्ज तं विना ॥
वृ. एष बालको मया सह भोक्ष्यते इत्येव भणित्वा नीतो मण्डल्यां स च सम्प्रति तमाचार्यं विना भोक्तुं नेच्छति । स वाचार्यस्यस्नेहेन सम्बधस्ततः कथं प्रवज्यायां गृहीतायां सह भोजनं विना तिष्ठेत् नैव तिष्ठोदिति भावः ।
भा. [४६४६ ]
अनुवविउ एसो संभुंजइ मा बुवेज्ज अपरिणयो। ताोवट्ठाविज्जइ तो नं संभुजए ताहे ॥
वृ. तत्र हु निश्चितमपरिणता मा ब्रूयुरेव यथैषोऽनुपस्थापितो मण्डल्यां संभुङ्क्ते ततः स तदा उपास्थाप्यते तदनन्तरं संभोजनं-मण्डल्यामिति ।
भा. [४६४७]
अहव अनाभोगेण सहसक्कारेणं वावि हुज्ज संभुत्तो ।
उमम्मि वि सहु तत्तो विष्परिणामं तु गच्छेज्जा ॥
वृ. अथवा अनाभोगेन सहसाकारेण वा मण्डल्यां स युक्तो भूयात् । ततोऽस्य मा प्रापदनवस्थाप्रसङ्ग इति तमूनाष्टवर्ष्जातमप्युपस्थाप्य मण्डल्यां संभोजयेत् । अवमे दुर्भिक्षे जाते मा विपरिणामं गच्छेदिति उपस्थाप्य मण्डल्यां संभोज्यते । एतदेव भावयति -
भा. [४६४८]
अदिक्खायतो मा मे मं इमे पच्छभोजिनो ।
अपरोहमिति भावेज्जा तेनावि सह भुंजते ॥
वृ. इमे प्रच्छन्नभोजिनो मा मेऽवमे दुर्भिक्षे अदीक्षयन्ति अदीक्षां कर्तुमिच्छन्ति तेन कारणेनाहं परः कृत इति स भावयेत् । ततस्तेनापि सह झटित्येवोपस्थापितेन संभुंक्ते ।
मू. (२६८ )नो कप्पइ निग्गंथाण वा निग्गंथीण वा खुड्डगस्स वा खुड्डियाए वा अवञ्जण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564