Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 519
________________ ५१६ व्यवहार-छेदसूत्रम्-२- १०/२५१ भा.[४५२१] संघयणं संटाणं च पढम जो य पुव्व उवओगो। ववहारे चउकंपि य चोद्दसपुव्वंमि वोच्छिन्न ।। वृ.प्रथमसंहननं वज्रर्षभनाराचं । प्रथमसंस्थानं समचतुरस्त्र यश्चान्तर्मुहूर्तेन चतुर्दशानामपि पूर्वाणामुपयोगोऽनुप्रेक्षणं यच्चादिमं आगमश्रुताज्ञाधारणालक्षणं व्यवहारे चतुष्कमेतत्सर्वं चतुर्दशपूर्विणी चतुर्दशपूर्वधरे व्यवच्छिन्न । एतन्निराकुर्वन् भाष्यकृदाहभा.[४५२२] अहायरितो एवं ववहहारचउक्कं जे उ वोच्छिन्नं। चउद्दसपव्वधरम्मी घोसंती तेसिमनुग्घाया। वृ. एवं परेगोत्तरे कृते आचार्यः प्राह-ये एवं प्रागुक्तप्रकारेण व्यवहारचतुष्कं चतुर्दशपूर्वधरे व्यवच्छिन्नं धोषयति तेषां प्रायश्चित्तं चत्वारो मासा अनुद्धाता गुरुका मिथ्यावादित्वात्, मिथ्यावादित्वमेव प्रविकटयिषुरिदमाहभा.[४५२३] जे भावा जहियं पुण चोद्दसपुव्वंमि जंबुनामे य। वोच्छिन्ना ते इणमो सुणसु समासेन सीसंतो।। वृ.ये भावा यस्मिन् चतुर्दशपूर्विणि ये जम्बूनाम्नि व्यवच्छिन्नास्तान् समासेन शिष्यमाणानिमान शणुत। तानेवाहभा.[४५२४] मनपरमोहिपुलाए आहारग खवग उवसम्मे कप्पे। संजमतियकेवलि सिज्झणा य जंबुम्मि वोच्छिन्ना ।। वृ.मनःपयायज्ञानिनः परमावधयः पुलाको लब्धिपुलाक: आहारकः आहारशरीरलब्धिमान् क्षपकः क्षपक श्रेणिरुपशमे उपशमश्रेणिः कल्पो जिनकल्प: संयमत्रिकपरिहारविशुद्धिसूक्ष्मसम्परायः यथाख्यातलक्षणं केवलिनः सिधना चैते भावा जम्बूस्वामिनि व्यवच्छिन्नाः इह केवलिग्रहणेन सिज्झणा ग्रहणेन वा गतेन यत् उभयोपादानं ततः यः केवली स नियमात् सिध्यति । यश्च सिध्यति स नियमात्केवली सन्निति ख्यापनार्थम्। भा.[४५२५] संघयण संट्ठाणं च पढमगं जो य पुव्वउवउगो। एते तिन्नि वि अत्था चोद्दसपुव्विम्मि वोच्छिन्नाः ।। वृ.प्रथमं सहननं संस्थानं यश्चान्तोमौहूर्तिकः समस्तपूर्वविषयउपयोगः एते त्रयोऽप्यर्था न जम्बूस्वामिनि तृतीयपुरुषयुगे व्यवच्छिन्नाः किन्तु चतुर्दशपूविणि भद्रबाहौ, व्यवहारचतुष्कं पुनः पश्चादप्यनुवृत्तं यत आहभा. [४५२६] केवलमनपज्जवनाणिणो य तत्तो य ओहिनाणजिना। चोद्दसदसनवपुव्वी आगमववहारिणो धीरा ॥ भा.[४५२७] सुत्तेण ववहरते कप्पववहारं धारिणो धीरा। __ अत्थधरववहारते आणाए धारणा ए य॥ ववहारचउक्कस्स, चोद्दसपुव्विम्मि छेदो जं। भणियं तं ते भिन्ना, जम्हा सुत्तं अत्थो य धरए य ।। वृ. केवलिनो मनः पर्यायज्ञानिनोऽवधिज्ञानजिनाश्चतुर्दशपूर्विणो दशपूर्विणो नवपूर्विणश्च एते षट्घीरा आगमव्यवहारिणः ये पुनः कल्पव्यवहारिणो धीरास्ते सूत्रेण कल्पव्यवहारगतेन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564