Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 527
________________ ५२४ व्यवहार-छेदसूत्रम्-२- १०/२५७ भा.[४५७४] हेटानंतरसुत्ते गणसोही एस सुत्तसंबंधो। सोहत्ति व धम्मोत्ति व एगटुं सो दुहा होइ ।। वृ.अधस्तनेऽनन्तरसूत्रे गणस्य शोधिरुक्ता । शोधिरिति वा धर्मो इति वा एकार्थः । स च धर्मो द्विधा भवति रूपतो भावतश्च। तत्र तत्प्रतिपादनार्थमिदं सूत्रमित्येष सूत्रसम्बन्धः। भा.[४५७५] रूवं होति सलिंगं धम्मो नाणादियं तियं होइ। रूवेण य धम्मेण य जढमजढे भंगचत्तारि॥ वृ. रूपं नाम भवति स्वलिंगं रजोहरणादिधर्मो ज्ञानादिकं त्रिकं रूपेण च त्यक्तेऽत्यक्ते च भंगाश्चत्वारः । तेन सूत्रपाठसिद्धा एव तेषां विषयभागमाहभा.[४५७६] रूवजढमन्नलिंगे धम्मजढे खलु तहा सलिंगम्मि। उभयजढो गिहिलिंगे दुहितो सहिओ लिंगेन ।। व.रूपं त्यक्तं येन स धर्मस्वरूपत्यक्तः सुखादिदर्शनात्पाक्षिकः त्यक्तस्य परनिपातः। सोऽन्यस्य लिङ्गे द्रष्टव्यः । इयमत्र भावनाभावतो ज्ञानादित्रिकसमन्वितः कारणवशेनान्यलिङ्गं गृहलिङ्ग वा यः प्रतिपद्यते । अत्र निदर्शनं यथा-कोऽपि राजा महामिथ्यादृष्टि स्तिकवादी वावदूक: पण्डिताऽभिमानी दर्शनिभिः सह वादंदत्वा तद्भुद्धिमुपजीव्य दर्शनिनो हीलयति। अन्यदा साधूनुपद्रावयितुं प्रवृत्तो मया सह वादो दीयतां । तत्रैकः साधुर्वादलब्धिसम्पन्नः खचरलब्धिमानभूत् सङ्घस्यापभ्राजनेति गृहिलिङ्गमन्यलिगंवा कृत्वा राज्ञः समीपे वादेनोपस्थितः प्रवृत्तो द्वयोरपि वादः। तत्र राजाऽल्पशक्तिकत्वात् स्वपक्षं निर्वाहयितुमशक्नुवन हीलनां तस्य कृतवान्। ततः स वाददर्पस्फेटनाय तस्य राज्ञो मूर्धानं पदेनाक्रम्याकाशेन वायुरिव पलायित्वा। स्वस्थानं गतः एतदेवाहभा.[४५७७] तस्स पंडियमानस्स बुद्धिलस्स दुरप्पणो। मुद्धं पाएण अकम्म वादी वाउरिवागतो।। वृ.तस्य नास्तिकवादिनो राज्ञः पण्डितमानिनो बुद्धिः परस्य बुद्धिं लात्युपजीवति इति बुद्धिलः तस्य दुरात्मनो मूर्धानं पादेनाक्रम्य वादी वायुरिव पलायित्वा स्वस्थानमागतः । एष प्रथमपुरुषो द्वितीयो धर्मत्यक्तो नरूपत्यक्त इत्येवं रूपः खलु स्वलिङ्गे सति प्रतिपत्तव्यः । स च पार्श्वस्थादीनामन्यतमो निष्कारणप्रतिसेवी अवधावितुकामो वा वेदितव्यः । तस्य भावतस्त्यक्तधर्मत्वात्स्वलिङ्गस्य च धारणादिति। उभयजढो गिहिलिङ्गेइति उभयत्यक्तो मिथ्यादृष्टिहिलिङ्गेवर्तमान उभयसहितः स्वलिङ्गेन सहितो ज्ञानादित्रिकोपेतः। मू.(२५८)चत्तारिपुरिसज्जाया पन्नत्ता तं जहा-गणसंट्ठिति नामेगे जहति नो धम्म, एगे धम्मं जहति, नो गणसंहिति। एगे धम्मपि जहति गणसंद्विति पिएगे नो धम्मं जहति नो गणसंद्विति। भा.[४५७८] गणसंट्ठिति धम्मे या चउरो भंगा हवंति नायव्वा। गणसंट्ठिति असिस्से महकप्पसुयं न दायव्वं। वृ. पूर्वप्रकारेण गणसंस्थितौ धर्मे च भङ्गाश्चत्वारो भवन्ति ज्ञातव्यास्ते च तत्र पाठसिद्धा एव गणसंस्थिति म गणस्य मर्यादा यथा अशिष्येऽयोग्ये शिष्ये महाकल्पश्रुतं नदातव्यम्। सम्प्रति चतुर्णामपि भङ्गाना विषयविभागमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564