Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५२२
व्यवहार-छेदसूत्रम्-२- १०/२५३ करे नामं एगे नोगणट्ठकरे २ एगे गणट्ठकरे विमानकरे वि३ एगे नो गणट्टकरे नो मानकरे४ ।
वृ.अस्याक्षरगमनिका सुप्रतीता। प्रपञ्चो भाष्यकृदाह।। भा.[४५६४] एमेव होंति भंगा चत्तारि गणट्ठकारिणो जइणो।
रनो सारूविय देवचितगा तत्थ आहरणं ॥ वृ. एमेवानन्तरसूत्रोक्तप्रकारेण गणार्थकारिणोऽपि यतेश्चत्वारो भङ्गा भवन्ति। ते च सूत्रतः स्पष्टा एव। तेषु च चतुर्वपि पुरुषजातेषु ये सारूपिका यते: समानरूपधारिणो मुण्डितशिरस्का भिक्षाटनशीला इत्यादि प्रागुक्तस्वरूपा देवचिन्तका नाम ये शुभाशुभं राज्ञः कथयन्ति ते आहरणं दृष्टान्तस्तमेव भावयतिभा.[४५६५] पुट्ठापुट्ठो पढमो उ साहइं न उ करेइ मानं तु।
बितिउ मानकरेइं पुट्ठो विना साहई किंचि ।। भा.[४५६६] तइओ पुट्ठो साहइ नो पुट्ट चउत्थमेव सेवइ उ।
दो सफला दो अफला एवं गच्छे वि नायव्वा ।। वृ. प्रथमो राज्ञा पृष्टोऽपृष्टो वा यत्र शुभाशुभं वा साधयति, न मानं करोति, द्वितीयो मानं करोति, न च मानादेव पृष्टोऽपि किंचित् कथयति। तृतीयः पृष्टः नापृष्टश्चतुर्थ: सेवते एव राजानं नेति। अत्र द्वौ प्रथमतृतीयो सफलौ द्वौ च द्वितीयचतुर्थावफलौ एवममुना दृष्टान्तगतेन प्रकारेण गच्छेऽपि द्वौ प्रथमतृतीयौ सफलौ द्वौ च द्वितीयचतुर्थावफलौ च ज्ञातव्यौ । तेषां चतुर्णामपि स्वरूपमाहभा.[४५६७] आहार उवहि सयनाइ एहिं गच्छस्सुपग्गहं कुणति।
बिइओ मानं उभयं च तइओ नोभय चउत्थो। वृ. प्रथम आहारोपधिशयनादिभिर्गच्छस्योपग्रहं करोति न च मानं, द्वितीयो मानः तृतीय उभयं गच्छस्योपग्रहमानं च, चतुर्था नोभयं गच्छस्योपग्रहं नापि मानमिति।
मू. ( २५४)चत्तारिपुरिसज्जाया पन्नत्तातं जहा-गणसंगहकरे नामंएगे नो मानकरे। एगे मानकरे नो गणसंगहकरे। एगे गणसंगहकरे विमानकरे वि। एगे नो गणसंहकरे नो मानकरे।।
वृ. अत्र सम्बन्धमाहभा.[४५६८] सो पुन गणस्स अट्ठो संगहो तत्थ संगहो।
दुविहो दव्वे भावे नियगा उदोन्नि आहारनाणादी। वृ. अनन्तरसूत्रे गणार्थकर उक्तः स पुनर्गणस्यार्थं वा संग्रहस्ततसंग्रहकरप्रतिपादनार्थमिदं सूत्रं । तत्र सङ्घहो द्विधा-द्रव्यतो भावतश्च। तत्र द्रव्ये भावे च द्वौ त्रिको द्रष्टव्यौ तद्यथा-आहारादिकं द्रव्ये ज्ञानादित्रिकं भावे तदेवं संग्रहं व्याख्याय संग्रहकरत्वयोजनामाहभा.[४५६९] आहारोवहिसेज्जाइएहिं दव्वंमि संगहं कुणइ।
सीस परिच्छे वाए भावे न तरंति जाहे गुरू ॥ वृ. द्रव्यतः संग्रहं करोति आहारोपधिशय्यादिभिरत्रादिशब्द आहारादीनां स्वगतानेकभेदसूचकः । भावे न यदा गुरवः शक्नुवन्ति तथा शिष्यान् प्रतीच्छिकान् वा वाचयति। एष प्रथमः पुरुषः। द्वितीयो मानं करोतिन तुद्रव्यतो भावतो वा गणस्य संग्रह, तृतीय उभयं, चतुर्थो नोभयमिति।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564