Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४२७
उद्देशकः-१०, मूलं-२५१, [ भा. ४३८६] भा. [४३८६] एएहि कारणेहिं पंडियमरणं तु काउसमत्थो।
ऊसासगद्धपढें रज्जुग्गहणं व कुज्जाहि ।। वृ. एतैरनन्तरोदितैालभक्षणप्रभृतिभि: कारणैः पण्डितमरणं यथोक्तप्रत्याख्यानरूपं कर्तुमसमर्था उच्छासनिरोधं गृध्रपृष्ठं रज्जुग्रहणं या कुर्युः। अथ किमिति ते व्यालभक्षितादय आत्मानं घातयन्ति । उच्यते - भा. [४३८७] अनुपुव्विहिारीणं उस्सग्ग निवाइयाणां जा सोही।
विहरंतए न सोही भणिया आहारलोवेण ।। वृ. ये व्यालाच्छभल्लादि कृतव्याघातरहितास्तेषामानुपूर्व्या ऋतुबद्धे मासकल्पेन वर्षावासचतुर्मासकल्पेन विहारिणामुत्सर्ग निपातिनामुत्सर्गनिपातिनामुत्सर्गेण संयममनुपालयतां या चारित्रशोधिर्भवति सा व्यालाच्छभल्लादिव्याघातवति विहरति न भणिता शोधिन भवतीत्यर्थः कस्मान्न भवतीत्यत आह-आहारलोपेन ते हिव्यङ्गत्वादिकारणेन न शक्नुवन्ति परिपूर्णामुत्तरगुणविशुद्धिं कर्तुं, ततो यथावस्थिताहारविलोपतो बालमरणमभ्युपगच्छन्ति तदेवमुक्तं भक्तप्रत्याख्यानमिदानीमिङ्गिनीमरणमाहभा. [४३८८] पव्वज्जादी काउं नेयव्वं जाव होत वोच्छित्ती।
पंचतुलेऊण ततो इंगिनीमरणं परिणओ उ॥ वृ.प्रव्रज्यादिकं प्रव्रज्याशिक्षाग्रहणं व्रतारोहणमर्थग्रहणमनियतं वासंगच्छस्य परिपूर्णस्य निवृर्ति गच्छनिवृत्तिकरणेन च तीर्थस्याव्यवच्छेदः कृतस्तत आह तावत् ज्ञातव्यं यावद्भवति(अ) व्यवच्छितिः। तत्पर्यन्तं कृत्वा पञ्च च तपः। सूत्रसत्वैकत्वबललक्षणानि तोलयित्वा सं इङ्गिनीमरणं परिणतः प्रतिपन्नो भवति । अथ भक्तपरिज्ञातोऽस्यां को विशेष इत्याहभा. [४३८९] आयप्परपडिकम्मं भत्तपरिन्नाए दो अनुनाया।
परिवज्जिया इंगिनि चउव्विहाहारविरई या ।।। वृ. भक्तपरिज्ञायां द्वे अपरिज्ञाते तद्यथा-आत्मना स्वयं परिकर्म परेण च, इङ्गिनी पुनः परिवजिता परेण परिकर्म न कार्यते तथा भक्तपरिज्ञायां चतुर्विधस्य त्रिविधाहारस्य विरतिभवति । इङ्गिन्यां तु नियमाच् चतुर्विधाहारविरतिः । परपरिकर्मविवर्जनमेव भावयतिभा.[४३९०] ट्ठाणनिसीय तुयट्टण इत्तरियाई जहा समाहीए।
सयमेवय सो कुणती उवसग्गपरीसह हियासी ।। भा.[४३९१] संघयणधितीजुत्तो नवदसपुव्वा सुएण अंगा वा।
इंगिनिपातोवगमं नीहारी वा अनीहारी ।। वृ. स्थानमूर्ध्वस्थानं, निषदनमुपवेशनं, त्वग् वर्तनं शयनं, एतानि, चत्वारकाणि स यथा समाधिः स्वयमेव करोति न तु परत: कारयति । तथा दीव्यादीन् उपसर्गान् चक्षुरादिपरीषहांश्च सम्यगध्यास्ते सहते, । तथाहि-चतुविधाहारप्रत्याख्यानान्नास्यपानकमपि भवति, नाप्यपवादतश्चरमाहारदानमिति तथा संहनने तु त्रयाणामाद्यानामन्यतमेन धृत्या च युक्तस्तथा श्रुतेन सूत्रतो यस्य पूर्वाणि नव दश वा केवलानि अङ्गानि स इङ्गिनीमरणं प्रतिपद्यते। गतमिङ्गिनीद्वारमधुना 22/32
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564