SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ४२७ उद्देशकः-१०, मूलं-२५१, [ भा. ४३८६] भा. [४३८६] एएहि कारणेहिं पंडियमरणं तु काउसमत्थो। ऊसासगद्धपढें रज्जुग्गहणं व कुज्जाहि ।। वृ. एतैरनन्तरोदितैालभक्षणप्रभृतिभि: कारणैः पण्डितमरणं यथोक्तप्रत्याख्यानरूपं कर्तुमसमर्था उच्छासनिरोधं गृध्रपृष्ठं रज्जुग्रहणं या कुर्युः। अथ किमिति ते व्यालभक्षितादय आत्मानं घातयन्ति । उच्यते - भा. [४३८७] अनुपुव्विहिारीणं उस्सग्ग निवाइयाणां जा सोही। विहरंतए न सोही भणिया आहारलोवेण ।। वृ. ये व्यालाच्छभल्लादि कृतव्याघातरहितास्तेषामानुपूर्व्या ऋतुबद्धे मासकल्पेन वर्षावासचतुर्मासकल्पेन विहारिणामुत्सर्ग निपातिनामुत्सर्गनिपातिनामुत्सर्गेण संयममनुपालयतां या चारित्रशोधिर्भवति सा व्यालाच्छभल्लादिव्याघातवति विहरति न भणिता शोधिन भवतीत्यर्थः कस्मान्न भवतीत्यत आह-आहारलोपेन ते हिव्यङ्गत्वादिकारणेन न शक्नुवन्ति परिपूर्णामुत्तरगुणविशुद्धिं कर्तुं, ततो यथावस्थिताहारविलोपतो बालमरणमभ्युपगच्छन्ति तदेवमुक्तं भक्तप्रत्याख्यानमिदानीमिङ्गिनीमरणमाहभा. [४३८८] पव्वज्जादी काउं नेयव्वं जाव होत वोच्छित्ती। पंचतुलेऊण ततो इंगिनीमरणं परिणओ उ॥ वृ.प्रव्रज्यादिकं प्रव्रज्याशिक्षाग्रहणं व्रतारोहणमर्थग्रहणमनियतं वासंगच्छस्य परिपूर्णस्य निवृर्ति गच्छनिवृत्तिकरणेन च तीर्थस्याव्यवच्छेदः कृतस्तत आह तावत् ज्ञातव्यं यावद्भवति(अ) व्यवच्छितिः। तत्पर्यन्तं कृत्वा पञ्च च तपः। सूत्रसत्वैकत्वबललक्षणानि तोलयित्वा सं इङ्गिनीमरणं परिणतः प्रतिपन्नो भवति । अथ भक्तपरिज्ञातोऽस्यां को विशेष इत्याहभा. [४३८९] आयप्परपडिकम्मं भत्तपरिन्नाए दो अनुनाया। परिवज्जिया इंगिनि चउव्विहाहारविरई या ।।। वृ. भक्तपरिज्ञायां द्वे अपरिज्ञाते तद्यथा-आत्मना स्वयं परिकर्म परेण च, इङ्गिनी पुनः परिवजिता परेण परिकर्म न कार्यते तथा भक्तपरिज्ञायां चतुर्विधस्य त्रिविधाहारस्य विरतिभवति । इङ्गिन्यां तु नियमाच् चतुर्विधाहारविरतिः । परपरिकर्मविवर्जनमेव भावयतिभा.[४३९०] ट्ठाणनिसीय तुयट्टण इत्तरियाई जहा समाहीए। सयमेवय सो कुणती उवसग्गपरीसह हियासी ।। भा.[४३९१] संघयणधितीजुत्तो नवदसपुव्वा सुएण अंगा वा। इंगिनिपातोवगमं नीहारी वा अनीहारी ।। वृ. स्थानमूर्ध्वस्थानं, निषदनमुपवेशनं, त्वग् वर्तनं शयनं, एतानि, चत्वारकाणि स यथा समाधिः स्वयमेव करोति न तु परत: कारयति । तथा दीव्यादीन् उपसर्गान् चक्षुरादिपरीषहांश्च सम्यगध्यास्ते सहते, । तथाहि-चतुविधाहारप्रत्याख्यानान्नास्यपानकमपि भवति, नाप्यपवादतश्चरमाहारदानमिति तथा संहनने तु त्रयाणामाद्यानामन्यतमेन धृत्या च युक्तस्तथा श्रुतेन सूत्रतो यस्य पूर्वाणि नव दश वा केवलानि अङ्गानि स इङ्गिनीमरणं प्रतिपद्यते। गतमिङ्गिनीद्वारमधुना 22/32 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy