________________
४९८
व्यवहार-छेदसूत्रम्-२- १०/२५१ पादपोपगमनमुच्यते तदपि प्रव्रज्यादितीर्थाव्यवच्छेदपर्यन्तं कृत्वा पञ्च तपः सूत्रादि तोलयित्वा च प्रतिपद्यते । तत्र नियमतो नि:प्रतिकर्म निश्चलंया,तथाहि-ऊर्ध्वस्थानेन उपवेशनेन पार्श्वेण वाऽन्येन वा येन स्थानेन स्थितः स यावज्जीवमपि तेन स्थानेन तिष्ठति न पुनरन्यत्स्थानं तस्य कर्तुं तस्य स्वप्रयोगेण कल्पते । तच्च द्विधा-निर्दारिमं नाम यत् ग्रामदीनामन्तः प्रतिपद्यते ततो हि मृतस्य स ततस्तस्य शरीरं निष्काशनीयं भवति । अनिर्दारितं नाम यत् ग्रामादीनां बहिः प्रतिपद्यते, । सम्प्रति पादपोपगमस्य निरुक्तमाहभा.[४३९२] पातोवगमं भणियं समविसमे पायवो जहा पडितो।
नवरं परप्पउगा कंपेज्ज जहा चल तरुव्व ॥ वृ. पादपपोगमं नाम भणितं यथा समे विपमे वा पादपः पतितस्तथैवावतिष्ठते तथा यो यथा समे विषमे वा पतितः स यावज्जीवं तथा तिष्ठति। नवरं परप्रयोगात् कम्पेत यथा तरुः परप्रयोगाच्चलः । पादपस्येवोपगमोऽभ्युपगमः पतनस्य यत्र तत्तथेति व्युत्पत्तिः । भा.[४३९३] तसपाणबीयरहिए विच्छिन्नवियार थंडिल विसुद्धे।
निदोसा निद्दोसे अवेंति अब्भुज्जया मरणं ।। वृ. विशुद्धे स्थण्डिले निर्दोषे निर्दोषत्वमेवाह-त्रसप्राणबीजरहितेऽविस्तीर्णविचारे विपुलप्रचारे यत्र कृष्यमाणस्याप्यस्थण्डिलगमनदोषा न भवन्ति । तत्र निर्दोषाः साधवोऽभ्युद्यतमरणं पादपोपगमनमरणमुपयन्ति प्रतिपद्यन्ते। भा.[४३९४] पुव्वभवियवेरेणं देवो साहरति कोवि पायाले।
मासो चरमसरीरो न वेयणं किंचि पाविहिति ।। वृ.पूर्वभवकर्मवैरेण कोऽपि देवस्तं प्रतिपनपादपोपगमनं पातालकलशेषु संहरेत् । नासौ चरमशरीर न कांचिदपि वेदनां प्राप्स्यतीति कृत्वा स तथा हतः सम्यक् तमुपसर्ग सहते । न केवलमेनमन्यानापि तथा चाहभा.[४३९५] उत्पन्ने उवसग्गे दिव्वे मानुस्सए तिरिच्छे य।
सव्वे पराइणित्ता पाओवगया परिहरंति ॥ वृ.उत्पन्नान् उपसर्गान् दिव्यान्मानुषान् तैरश्चांश्च सर्वन् पराजित्य पादपोपगताः प्रवितरन्ति । भा.[४३९६] जह नाम असीकोस अन्नो कोसे असीवि खलु अन्ने ।
इय मे अन्नो देहो अन्नो जीवोत्ति मन्नेति ।। वृ.यथा नाम असिः खङ्ग कोशे प्रत्यागारे वर्तते । तत्रान्यः पृथग् खलु कोशोऽन्यो असिरिति । एवममुना दृष्टान्तप्रकारेण ममान्यो देहोऽन्यो जीवः पर अ प्रभवति देहेन जीव इति न काचिन्मे क्षतिरिति मन्यते। तथा मननाच्च सम्यक् उपसर्गान् सहते। भा.[४३९७] पुव्वावरदाहिणउत्तरेहिं वाएहिं आवयंतेहि।
जह न वि कंपइ मेरू तह ते ज्झाणाओ न चलंति ॥ वृ.यथा मेरुः पूर्वापरदक्षिणोत्तरैर्वा तैरापतद्भिर्न च कम्पते तथा ते पादपोपगता उपसर्गनिपातेऽपि ध्यानान्न चलन्ति ।
भा.[४३९८] पढमंमि य संघयणा वटुंतो सेलुकुड्ड समाणा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org