________________
उद्देशकः-१०, मूलं-२५१, [भा. ४३९८ ]
४९९ तेसि पिय वुच्छेदो चोद्दसपुव्वीण वच्छेए॥ वृ.प्रथमे च ऋषभनाराचलक्षणसंहनने वर्तमाना धृत्या शैलकुड्यसमानाः पादपोपगमनं प्रतिपन्नाः पादपोपगमनं प्रतिपद्यन्ते। तेषामपि च पादपोपगमप्रतिपत्तृणां चतुर्दशपूर्विव्यवच्छेदे व्यवरच्छेदो भवेत्। भा.[४३९९] दिव्वमनुया उ दुग तिग अस्से पक्खेवगं सिया कुज्जा ।
वोसट्र चत्तदेहो अहाउयं कोइ पालेज्जा। व.देवा मानुष्या वा अनुलोभानि प्रतिलोभानि वा द्रव्याणि द्विकमनुलोभप्रतिलोमलक्षणोभयसहितं तदेवत्रिकमथवा सचित्तमचित्तं वा द्विकं तदेव हि मिश्रसहितं त्रिकं तस्य द्विकस्य त्रिकस्यवा आस्ये मुखे प्रक्षेपं कुर्युः । स तेन द्वारेण मुखे प्रक्षिप्तेन व्युत्सृष्टः प्रतिबन्धाभावतस्त्यक्तपरिकर्मकरणतो देहो येन स व्युत्सृष्ट त्यक्तदेहः । कोऽपि यथायुर्यथावस्थितमात्मीयमायुः पालयति द्विकत्रिकाहारव्याख्यानार्थमाहभा.[४४००] अनुलोभा पडिलोमा दुगं तु उभयसहिया तिगं होति।
अहवा चित्तमचित्तं दुगं तिगं मीसगसमग्गं ।। वृ.अनुलोमानि द्रव्याणि प्रतिलोमानि चेति द्विकं तान्येवोभयसहितानि त्रिकमथवा सचित्तमचित्तमिति द्विकं तदेव मिश्रसमग्रं त्रिकमिति । भा.[४४०१] पुढविदग अगनिमारुय वणस्सइ तासु कोवि साहरइ।
___ वोसट्टचत्तदेहो अहाउयं कोवि पालेज्जा ।। वृ.कोऽपि पादापोपगमं प्रतिपन्नं पृथिव्यां पृथिवीकायमध्ये उदके अप्कायेऽग्नौ मारुते वायुकाये वनस्पतिषु त्रसेषु च संहरन्ति । स च तथा संहतो व्युत्सृष्टत्यक्तदेहो यथायुः कोऽपि पालयति। भा. [४४०२] एगंतनिज्जरा से दुविहा आराधना धुवा तस्स।
अंतकिरियं व साहू करेज्ज देवोववत्तिं वा ।। व. एकान्तेन स तथास्थितस्य निर्जरा भवति तथा तस्य धुवा द्विविधा सिद्धिगमनयोग्या कल्पोपत्तियोग्या चाराधना यया साधुरन्तक्रियां वा कुर्यात् देवोपपत्तिं वा। भा.[४४०३] मज्जणगंधं पुष्फोवयार परिचारणं सिया कुज्जा।
वोसट्ठ चत्तदेहो अहाउयं कोइ पालेज्जा। वृ.केचित् रूपातिशयलुब्धाः तस्य कृतपादपोपगमस्य मज्जनं स्नानं ततः पटवासादिगन्धं तदनन्तरं पुष्पोपचारं ततः परिचारणं गले लगित्वा परिशयनपरिचुम्बनादिरूपं स्यात् । कदाचित् कुर्यात्। तत्र स व्युत्सृष्टत्यक्तदेहो यथायुः कोऽपि पालयति। अरिक्तद्विष्टः सन सम्यक्तत्सहमानो यावज्जीवमवतिष्ठते। भा.[४४०४] पुव्वभविय पेम्मेण देवो देवकुरु उत्तरकुरासु।
____ कोई तु साहरेज्ज सव्वसुहार जत्थ अनुभावा ।। वृ.पूर्वभविकेन पेम्णा कोऽपि देवो यत्र अनुभवाः सर्वे शुभास्तासुदेवकुरुषूत्तरकुरुषु वा संहरेत् । स च तथा तत्र संहतो व्युत्सृष्टत्यक्तदेहो यथायु कोऽपि पालयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org