________________
व्यवहार-छेदसूत्रम्-२- १०/२५१ भा.[४४०५] पुव्वभवियपेम्मेणं देवो साहरइ नागभवणंमि।।
जहियं इट्ठा कंता सव्वसुहा होंति अनुभावा ।। वृ. पूर्वभविकेन प्रेम्णा कोऽपि देवो यत्र सर्वेषु शुभा अनुभावा इष्टाः कान्ताश्च भवन्ति । तत्र नागभवने संहरेत् । सोऽपि तत्र तथैवावतिष्टते । भा. [४४०६] बत्तीसलक्खणधरो पातोवगतो य पागडसरीरो।
पुरिसव्वेसिणि कण्णा राइ विइण्णा उ गेण्हेज्जा । वृ.द्वात्रिंशल्लक्षणधरः पादपोपगतः सन् प्रकटशरीरो जातस्तं पुरुषद्वेषिणी कन्या राजवितीर्णा राज्ञा अनुज्ञाता सती गृह्णीयात् । गृहीत्वा किं करोत्यत आहभा.[४४०७] मज्जनगंधं पुप्फोवयारपरिचारणं सयं कुज्जा।
वोसट्ठ चत्तदेहो अहाउयं कोवि पालेज्जा ।। वृ.अस्य व्याख्या प्राग्वत् । तथाभा.[४४०८] नवंगसुत्त परिबोहियाए अट्ठारसतिविसेसकुसलाए।
वायत्तारिकला पंडियाए चोसट्ठि महिलागुणेहिं ।। वृ.द्वे अक्षीणि द्वौ कर्णौ द्वौ नाशापुटौ द्विजिह्वा स्पर्शने नवमं मनः । एतानि नव अङ्गानि यावदद्यापि यौवनं न भवति तावत्सुप्तानि भवन्ति। न खलु तदानीमेतेषामतीवाऽभिष्वङ्गा सुखं भवति, ततः सुप्तानीति व्यपदिश्यन्ते । यौवने तु प्राप्तकलस्य गुणेन प्रतिबुद्धानि जायन्ते । नवाङ्गानि सुप्तानि प्रतिबोधितानि यया सा तथा तया तथा अष्टादश देशीभाषास्तासु मध्ये यस्य यत्र कामरतिविशेषस्तत्र कुशलतया तथा द्वासप्तप्रतिकलापण्डितया चतुःषष्टया महेलागुणैरुपेतया, नवाङ्गादिव्याख्यानं तावदाहभा.[४४०९] दो सोआ नेत्तमादी नवंग सुत्ता हवंती एए उ।
देसी भास टारसती विसेसा उ इगवीसं ।। भा.[४४१०] कोसल्लमेक्कवीसंइविहं तु गुणेहिं जुत्ताए।
रूवजोव्वणविलास लावनकलियाए।। वृ.द्वे श्रोत्रे द्वे नेत्रे आदिशब्दानाशानाशापुटद्वयजिह्वास्पर्शन मनसां परिग्रह एतानि नवकं नवसंख्यानि सुप्तानिभवंति, देशीभाषा अष्टादश ताः शास्त्रप्रसिद्धा रतिविशेष एकोनविंशतितमः, । तत्र कोशलमेकविंशतिविधं शास्त्रप्रसिद्धं । एवमादिभिर्गुणैर्युक्तया तथा रूपयौवनविलासलावण्यकलितया च। भा.[४४११] चउकण्णंमि रहस्से रागेणं रायदिन्नपसराए।
तिमिमयरेहिं व उदही, न खोभिओ जो मनो मुनित्तो। भा.[४४१२] जाहे पराजिया सा न समत्था सीलखंभणं काउं।
. नेऊण सेलसिहरं तो से सिलमुंचए उवरिं॥ वृ. चतुःकर्णे रहस्ये रागेणानुरागेण राजदत्तप्रसराया गृह्यते गृहीत्वा चानेकप्रकारसंक्षोभ आपद्यते तत्र यन्मुनेर्मनस्तत् न याति । तिमिमकरैर्वोदधिर्न क्षोभितः ततो यदा सा पराजिता न शीलखण्डनं कर्तुं समर्था तदा रोषात् शैलशिखरं नीत्वा से तस्योपरि शिलां मुञ्चति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org