Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 498
________________ उद्देशक :- १०, मूलं - २५१, [ भा. ४३७२ ] तेषां मार्गणगवेषणार्थे तत्प्रत्यासन्नग्रामाणां पञ्चानां दशानां वा घातनं दण्डनं कुर्यात् । सम्प्रति अन्तर्बहिर्व्याघात इति द्वारमाह भा. [४३७३] - न पगासिज्ज लहुत्तं परीसह उदएण हुज्ज वाघातो । उप्पने वाघाते जो गीयत्थाण उववातो ।। वृ.स भक्तप्रत्याख्याता गृहिणां न प्रकाश्यते । यतः कदाचित्परीषहस्योदयेन प्रत्याख्यानस्य व्याघातो विलोपः स्यात्, ततः समस्तस्यापि प्रवचनस्य लघुता जायते, उत्पद्यते च व्याघाते यो गीतार्थानामुपायः स प्रयोक्तव्य इति वाक्यशेषः । भा. [४३७४] को गीयाण उवाओ संलेहगतो उ विज्जए अन्नो । अत्थहतो जो अन्नो इतरे उ गिलाण पडिकम्मं ॥ वसो वा द्वाविज्जइ अन्नसास्सतीए तंमि संथारे । कालगउत्तिय काउं संज्झाकालम्मि नीणंति ॥ भा. [४३७५] - - वृ. भक्तप्रत्याख्याता द्विविध एकोऽनेकश्च । ते द्विविधा ज्ञाता अज्ञाताश्च । ज्ञातो नाम दण्डिकादीनां प्राकृतजनानां च विदितस्वरूपो यथा यावज्जीवमेव भक्त प्रत्याख्यातवान् तद्विपरीतोऽज्ञातः । तत्र यदि ज्ञातो भक्तपरिज्ञां न निस्तरति, तदा को गीतार्थानामुपायः प्रयोक्तव्यः ? उच्यते तदा स जवनिकान्तरितः स्थापितो यो वान्य उत्सहते स स्थाप्यते इतरस्य तु भक्तपरिज्ञाव्याघातवतो ग्लानपरिकर्म क्रियते । अथान्यसंलेखगतों न विद्यते नाप्यन्यः कश्चिदुत्सहते तदान्यस्यासत्यभावे वृषभः स्थाप्यते । तस्मिन् पूर्वभक्तप्रत्याख्यापकसक्ते संस्तारे ततो जवनिकान्तरितया लोकवन्दापनादि यतनया स करोति । यस्तु भक्तपरिज्ञाविलोपवान् सोऽल्पसागरिकमेकांते ध्रियते धृतस्य च ग्यानपरिकर्म तावत् क्रियते यावत् प्रथमालिकां करोति ततो जनमध्ये रात्रौ स कालगत इति प्रकाशः । स्वयं गमनेन सहायप्रदानतो वा सन्ध्याकाले तं निष्काशयन्ति । एतदेव भावयति - भा. [४३७६] Jain Education International ४९५ एवं तन्नायम्मी दंडगमादीहिं होइ जयणा उ । सयं गमनपेसणं वा खिसण चउरोनुग्धाया ॥ वृ. एवमुक्तेन प्रकारेण दण्डिकादिभिर्ज्ञायते भवति यतनां ज्ञातव्या प्रथमालिकाकरणे च स्वयं सर्वेषां साधूनां गमनं भवति । यदि वा स सहायस्यान्यत्र तस्य प्रेषणं यस्तु तं भक्तप्रत्या-ख्यानप्रतिभग्न एष इति तस्य प्रायश्चित्तं चत्वारो मासा अनुद्घाता गुरुकाः । यस्तु न ज्ञातः स यदि न निस्तरति तथापि न प्रवचनस्योड्डाहः । गतं सपराक्रमं भक्तप्रत्याख्यानमपराक्रममाहभा. [४३७७ ] सपरिक्कमे जो उगमो नियमा अपरक्कमंमि सो चेव । नवरं पुन नाणत्तं खीणे जंघाबले गच्छे ॥ वृ. सपराक्रमे भक्तप्रत्याख्याने यो गमोऽभिहितः स एवापराक्रमेऽपि नियमाद्वेदितव्यो नवरं पुनरिदं नानात्वमपराक्रमां क्षीणे जङ्घाबले भवति स्वगच्छे च । तथाहि क्षीणजङ्घाबले वृद्धत्वेन मर्तुकामः स गच्छे भक्तं प्रत्याचष्टे । सम्प्रति व्याघातिममाह भा. [४३७८ ] एमेव आनुपुव्वी रोगायंकेहिं नवरि अभिभूतो । बालमरपि सिया मरिज्जउ इमेहिं हेउहिं || For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564