Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४५८
भा. [४१४६]
जं इहपरलोगे वा हितं सुहं तं खमं मुणेयव्वं । निस्सेयस मोक्खाय उ अनुगच्छते जं तु ॥
वृ. यत् यस्मात्कारणात् तदभ्युत्थानमिह लोके वा हितं तेन हितमित्युच्यते । सुखं इह परलोके सुखकरणात् । क्षेममैहिकपारत्रिकप्रयोजनक्षमत्वात् । निःश्रेयसं कल्याणकारिकत्वात् । अनुगामि यन्मोक्षाय अनुगच्छति सम्प्रति दोषनिर्धातिविनयमभिधित्सुः प्रथमतो दोषनिर्धातशब्दार्थमाह
भा. [४१४७]
व्यवहार-छेदसूत्रम् - २ - १०/२५१
दोसा कसायमादी बंधो अहवा वि अट्ठपयडीतो । निययं व निच्छियं बाधातो विनासो य एगट्टा |
वृ. दोषाः क्रोधादयः । अथवा बन्धोऽष्टप्रकारो यदि वा पूर्ववद्वा अष्टौ कर्मप्रकृतयो दोषास्तेषां नियतं निश्चितं व्याघातो विनाश इत्येकार्थं दोषनिर्धातः । साम्प्रतमस्य भेदानाहकद्धस्स कोहविनयण दुट्ठस्स य दोसविनयणं जं तु । कंखिय कंखाच्छेदो आयप्पणिहाण चउहेसो ||
भा. [४१४८ ]
वृ. क्रुद्धस्य क्रोधविनयनं, दुष्टस्य यत् दोषविनयनं कांक्षिते कांक्षाच्छेदः । तथा आत्मप्रणिधानमित्येष दोषनिर्धातश्चतुर्धा । तत्र प्रथमं भेदमाह
भा. [४१४९]
सीयघरम्मिव दाहं वंजुलरुक्खो व जह उ उरगविसं । कुद्धस्स तहा कोहं पविनेती उवसमेतित्ति ॥
वृ. शीतगृहमिव जलयन्त्रगृहमिव दाहं तथा वञ्जुलवृक्ष उरगविषयं प्रविनयति यथा क्रुद्धस्य क्रोधं प्रविनयति किमुक्तं भवति ? उपशमयति
भा. [४१५० ]
दुट्ठो कसायविस हि मानमाया सभाव दुट्ठो वा । तस्स पविनेइ दोसं नासयए धंसए वत्ति ॥
वृ. कषायैर्विषयैयादि वा मानमायाभ्यामथवा स्वभावेन दुष्टस्तस्य दोषं प्रविनयति । अस्यैवार्थमाह--नाशयति ध्वंसते इति तृतीये भेदव्याख्यानार्थमाह
भा. [४१५१]
कंखा उ भत्तपाने परसमए अहव संखडीमादी ।
तस्स पवयणे कंखं संखडि अन्नाप सेणं ॥
वृ. यस्य भक्तपाने कांक्षा परसमये वा । अथवा संख्यादौ तस्य कांक्षा प्रविनयति स्फेटयति । संखड्यां संखडी कांक्षामन्यापदेशेनापनयति चतुर्थमात्मप्रणिधानरूपं भेदमाहजो एएसु न वट्टइ कोहे दोसे तहेव कंखाए । सो होइ सुप्पणिहितो सोहणपरिहाणजुत्तो वा ॥
भा. [४१५२]
वृ. एतेषु क्रोधे दोषे तथा कांक्षायां न वर्त्तते स भवति सुप्रणिहित आत्मप्रणिधानवान् । उपसंहारमाह
भा. [४१५३]
Jain Education International
छत्तीसेयाणि द्वाणाणि भणियाणनुपुव्वसो ।
जो कुसलो एएहिं ववहारी सो समक्खातो ॥
वृ. एतान्यन्तरोदितानी स्थानानि षट्त्रिंशदानुपूर्व्या क्रमशः क्रमेण भणितानि यस्तेषु कुशलः स व्यवहारी आगमव्यवहारी समाख्यातः पुनरपि यादृशा आगमव्यवहारिणस्तादृशानाह
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564