Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४७१
उद्देशकः-१०, मूलं-२५१, [ भा. ४२२९] - वृ. किं कारणं स्वगणादपक्रमणं क्रिया सूरिराह-स्थविराणामाचार्याणां संलेखनातपोभिः क्लान्तानामिह स्वगणे अभ्युद्यते भक्तपरिज्ञा लक्षणमरणे समुपस्थितानां शिष्याणां आचार्यानुरागेण रोदनक्रन्दनादीनि कुर्युः । रोदनादिकं च तेषामाका श्रुपातं दृष्ट्वा तेषामुपरि कारुण्यमुपजायते । ततो व्याधातः । अन्यच्च__ भा. [४२३०] सगणे आणाहानी अप्पत्ति य होइ एवमादीयं ।
परगणगुरुकुलवासो अप्पत्ति य वज्झितो होइ ।। ७. यो गणधरः स्थापितस्तस्याज्ञां केचित् कुर्वन्ति तथा केषांचिदपकरणनिमित्तमप्रीतिरादिशब्दान् गणभेदो बालादीनामुचिताद्यकरणदर्शनमित्यादि परिग्रहः । तत एवं स्वगणे आज्ञाहारनिरप्रीतिरसेवनादिकं ध्यानव्याघातकारणमुपतिष्टते। ततः, परगणे गत्वा भक्तप्रत्याख्यानं प्रतिपद्यते । यत एवं गुरुकुलवास आसेवितो भवति । किं विशिष्ट इत्याह-प्रीतिवजितोऽप्रीतिश्च समस्तापि परिहता भवतीति भावः । अप्रीत्यादिकं यथा स्वगणे भवति तथा प्रदर्शयति। भा.[४२३१] उवगरणनिमित्तं तु वुग्गहं दिस्सवा विगणभेयं ।
बालादी थेराण व उचियाकरणमि वाघातो।। वृ.उपकरणनिमित्तं साधूनामाचार्ये कृतभक्तप्रत्याख्याने व्युद्ग्रह: कलहो भवति । अथवा तं गणधरं केचिन्न मन्यन्ते ततः स्वस्वपक्षे परिग्रहो गणभेदस्तत एवमुपकरणनिमित्तं गणभेदं दृष्टवा उपलभ्य तथा बालादीनां बालवृद्धासहग्लानादीनां स्थविराणां चात्र विकरणे उचितकरणादर्शनेऽप्रीतिरुपजायते । तथा चाप्रीत्या ध्यानव्याघातः । अयं च परगणे प्रतिपन्ने गुणः । भा. [४२३२] सिनेहो पेलवो होइ निग्गते उभयस्स उ।
आहच्च वावि वाधातो वा सेहादि विउब्भमो।। वृ.स्वगणान्निर्गतोभयस्यापि गणस्याचार्यस्य वा स्नेह: परस्परं पेलवः प्रतनुर्भवति। अन्यच्च आहच्च-काचित् प्रथमपरीषहेनत्याजितस्य भक्तपरिज्ञां यो व्याघातेऽपि विलोप: स्यात्, तस्मिन् व्याघातेन स्वगणात् शैक्षकादीनां व्युद्ग्रहो जायते आघातपरिज्ञानाभावात्। अथवा विपरिणामोऽपि स्यात्, तथाहि स्वगुणे स्थितं भग्नपरिज्ञं जानन्ति। ज्ञात्वा च सर्वां अपि प्रतिज्ञा एतेषामीदृशा एवेति विपरिणामं गत्वा संयम लोपयन्ति । सम्प्रति सीतिद्वारमाहभा.[४२३३] दव्वसिती भावसिती अनुयोगधराण जेसिमुवलद्धा।
नहु उड्डगमनकाट्ठा हेट्ठिल्लपयं पसंसंति। भा.[४२३४] संजमट्ठाणेणं कंडगाणालसाविती विसेसाणं ।
उवरिल्लपयकमलं भावसिती केवलं जाव।। ७. सितिनाम ऊर्ध्वमधो वा गच्छतः सुखोत्तरोवतारहेतुः पन्थाः । सा द्विधा-द्रव्ये भावे च। तत्र द्रव्येशितिनिःश्रेणिः सा द्विधा ऊर्ध्वगमने च तत्र अधोगमने च तत्र ययाधस्तनात् भूमिग्रहादिष्ववतीर्यते साऽधो गमने, ययोर्ध्वपरिमाणे आरुह्यते सा ऊर्ध्वगमने, भावशीतिरपि द्विधा प्रशस्ताऽप्रशस्ता च । तत्र यैर्हेतुभिस्तेषामेव संयमस्थानानां संयमकंडकानां लेश्यापरिणामविशेषाणां वा अधस्तात् संयमस्थानेष्वपि गच्छति, सा अप्रशस्ता भावशीतिः यैः पुनर्हेतुभिस्तेषामेव संयमादिस्थानानामुपरितनेषूरितनेषु विशेषेष्वध्यारोहति, सा प्रशस्तोच्चोपरितन एव क्रमेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564