Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 492
________________ उद्देशक :- १०, मूलं - २५१, [ भा. ४३३० ] बिति न लब्धंति दुलभे सुलभंमि अहो इमा जयणा ।। वृ. चरमाहारद्रव्याणि द्रव्यसंख्या परिमाणतश्च दिने दिने तावत्त्रीणि दिनानि तत्र परिणामतो दिने दिने स्तोकतरमानयंति । द्रव्यपरिहानिः पुनरेवं । यदि क्षीरं चरमाहारार्थतया समानीतं ततो द्वितीयदिवसे तन्नानयन्ति किन्तु दध्यादिकं । अथ चरमाहारार्थतया दध्यानीतं ततो द्वितीयदिने क्षीराद्यानयन्ति न तु दधि । एवं द्रव्यपरिहानिस्त्रिन् दिवसान् ततः परतः किञ्चिदानीयते । तत्र दुर्लभद्रव्यविषये एवं ब्रुवते न लभ्यते, सुलमे तु द्रव्य इयं वक्ष्यमाणा यतना भवति । तामेवाहभा. [४३३१] आहारे ताव च्छिदाहि गेहिं तोणि चइस्ससि । जं वा भुत्तं न पुव्वं ते, तीरं पत्तो तमिच्छसि ॥ वृ. आहारे आहारविषयां तावत् गृद्धिच्छिद्धि ततः शरीरं त्यक्ष्यसि नान्यथा यथा पूर्वं त्वया निस्पृहतया न भुक्तस्तदानीमभ्युद्यतमरणसमुद्रस्य तीरं प्राप्त इच्छसि एवमनुशासनेन तस्याहाराकांक्षा विनिवर्त्यते । गतं हानिद्वारमिदानीं अपरित्रान्तद्वारमाह भा. [४३३२] वट्टंति अपरितंता दिया व रातो स सव्वपडिकम्मं । पडियरगा गुणरयणा कम्मरयं निज्जरेमाणा ।। वृ. प्रतिचरका गुणरत्ना: रजो निर्जरयतस्यस्य कृतभक्तप्रत्याख्यातस्य प्रतिकर्मणि दिवारात्रौ वा परित्रान्ता वर्तन्ते । भा. [४३३३] ४८९ जो जत्थ होइ कुलो सो उ न हावेइ तं सइ बलंमि । उज्जुत्ता सन्नियोगे तस्स वि दीवेंति तं सद्धां ॥ वृ. यो यत्र प्रतिकर्मणि भवति कुशलः, स तत् प्रतिक्रर्म सति वले न हापयति । किन्तु सर्वेपि स्वस्वनियोगे उद्युक्तास्तथा वर्तन्ते, तद्यथा तस्यापि कृतभक्तप्रत्याख्यानस्य तामभ्युपगतमरणसमुद्रतीरप्राप्तत्वविषयां श्रद्धां दीपयति । भा. [४३३४] देहवियोगो खिप्पं वहेज्ज अहवा वि कालहरणेणं । दोण्हंपि निज्जरा वद्धमाणगच्छो उ एयट्ठा ॥ वृ.तस्य कृतभक्तप्रत्याख्यानस्य देहवियोगः क्षिप्रं वा भवेदथवा कालहरणेन तथापि स्वस्वनियोगयुक्तैस्तैर्भवितव्यं, एवं च द्वयानामपि प्रतिचारकाणां प्रतिचर्यस्य च प्रवर्धमाना निर्जरा कर्मनिर्जरा भवति । गच्छो ह्येतदर्थं परस्परोपकारेणोभयेषां निर्जरा स्यादित्येमर्थमासेव्यते गतं परित्रान्तद्वारमधुना निर्जराद्वारमाह 1 भा. [४३३५] कम्ममसंखेज्जभवं खवेइ अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे सज्झायंमी विसेसेणं ॥ भा. [४३३७] Jain Education International वृ. अन्यतरस्मिन् योगे प्रतिलेखनादिरूपे आयुक्तः उपयुक्तः सन् अनुसमयमेव प्रतिक्षणमेव कर्म असंख्येयभवोपार्जितं क्षपयति । कर्मणोऽनन्तकालमनवस्थानाभावदसंख्येन भवमित्युक्तं स्वाध्याये पुनरायुक्तः सन् विशेषेण कर्म क्षपयति । भा. [४३३६] कम्ममसंखेज्जभवं खवेई अनुसमयमेव आउत्तो । अन्नंतरगंमि जोगे काउस्सग्गे विसेसेणं ॥ कम्ममसंखेज्जभवं खवेइ अनुसमयमेव आउत्तो । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564