________________
उद्देशक :- १०, मूलं - २५१, [ भा. ४३३० ]
बिति न लब्धंति दुलभे सुलभंमि अहो इमा जयणा ।।
वृ. चरमाहारद्रव्याणि द्रव्यसंख्या परिमाणतश्च दिने दिने तावत्त्रीणि दिनानि तत्र परिणामतो दिने दिने स्तोकतरमानयंति । द्रव्यपरिहानिः पुनरेवं । यदि क्षीरं चरमाहारार्थतया समानीतं ततो द्वितीयदिवसे तन्नानयन्ति किन्तु दध्यादिकं । अथ चरमाहारार्थतया दध्यानीतं ततो द्वितीयदिने क्षीराद्यानयन्ति न तु दधि । एवं द्रव्यपरिहानिस्त्रिन् दिवसान् ततः परतः किञ्चिदानीयते । तत्र दुर्लभद्रव्यविषये एवं ब्रुवते न लभ्यते, सुलमे तु द्रव्य इयं वक्ष्यमाणा यतना भवति । तामेवाहभा. [४३३१] आहारे ताव च्छिदाहि गेहिं तोणि चइस्ससि । जं वा भुत्तं न पुव्वं ते, तीरं पत्तो तमिच्छसि ॥
वृ. आहारे आहारविषयां तावत् गृद्धिच्छिद्धि ततः शरीरं त्यक्ष्यसि नान्यथा यथा पूर्वं त्वया निस्पृहतया न भुक्तस्तदानीमभ्युद्यतमरणसमुद्रस्य तीरं प्राप्त इच्छसि एवमनुशासनेन तस्याहाराकांक्षा विनिवर्त्यते । गतं हानिद्वारमिदानीं अपरित्रान्तद्वारमाह
भा. [४३३२]
वट्टंति अपरितंता दिया व रातो स सव्वपडिकम्मं ।
पडियरगा गुणरयणा कम्मरयं निज्जरेमाणा ।।
वृ. प्रतिचरका गुणरत्ना: रजो निर्जरयतस्यस्य कृतभक्तप्रत्याख्यातस्य प्रतिकर्मणि दिवारात्रौ वा परित्रान्ता वर्तन्ते ।
भा. [४३३३]
४८९
जो जत्थ होइ कुलो सो उ न हावेइ तं सइ बलंमि । उज्जुत्ता सन्नियोगे तस्स वि दीवेंति तं सद्धां ॥
वृ. यो यत्र प्रतिकर्मणि भवति कुशलः, स तत् प्रतिक्रर्म सति वले न हापयति । किन्तु सर्वेपि स्वस्वनियोगे उद्युक्तास्तथा वर्तन्ते, तद्यथा तस्यापि कृतभक्तप्रत्याख्यानस्य तामभ्युपगतमरणसमुद्रतीरप्राप्तत्वविषयां श्रद्धां दीपयति ।
भा. [४३३४]
देहवियोगो खिप्पं वहेज्ज अहवा वि कालहरणेणं ।
दोण्हंपि निज्जरा वद्धमाणगच्छो उ एयट्ठा ॥
वृ.तस्य कृतभक्तप्रत्याख्यानस्य देहवियोगः क्षिप्रं वा भवेदथवा कालहरणेन तथापि स्वस्वनियोगयुक्तैस्तैर्भवितव्यं, एवं च द्वयानामपि प्रतिचारकाणां प्रतिचर्यस्य च प्रवर्धमाना निर्जरा कर्मनिर्जरा भवति । गच्छो ह्येतदर्थं परस्परोपकारेणोभयेषां निर्जरा स्यादित्येमर्थमासेव्यते गतं परित्रान्तद्वारमधुना निर्जराद्वारमाह
1
भा. [४३३५]
कम्ममसंखेज्जभवं खवेइ अनुसमयमेव आउत्तो ।
अन्नतरगम्मि जोगे सज्झायंमी विसेसेणं ॥
भा. [४३३७]
Jain Education International
वृ. अन्यतरस्मिन् योगे प्रतिलेखनादिरूपे आयुक्तः उपयुक्तः सन् अनुसमयमेव प्रतिक्षणमेव कर्म असंख्येयभवोपार्जितं क्षपयति । कर्मणोऽनन्तकालमनवस्थानाभावदसंख्येन भवमित्युक्तं स्वाध्याये पुनरायुक्तः सन् विशेषेण कर्म क्षपयति ।
भा. [४३३६]
कम्ममसंखेज्जभवं खवेई अनुसमयमेव आउत्तो । अन्नंतरगंमि जोगे काउस्सग्गे विसेसेणं ॥ कम्ममसंखेज्जभवं खवेइ अनुसमयमेव आउत्तो ।
For Private & Personal Use Only
www.jainelibrary.org