________________
४९०
व्यवहार-छेदसूत्रम्-२- १०/२५१
अन्नतरगंमि जोगे वेयावच्चे विसेसेण ।। भा. [४३३८] कम्ममसंखेज्जभवं खवेइ अनुसमयमेव आउत्तो।
अन्नतरगंमि जोगे विसेसउ उत्तमटुंमि ।। वृ. गाथात्रयमपि प्राग्वत् । नवरमुत्तमार्थे प्रतिपन्नस्य वैयावृत्ये च विशेषतः कर्मनिर्जरा भवतीति विशेषत उभयत्रापि यततितव्यं । निर्जराद्वारं संस्तारकद्वारमाहभा.[४३३९] संथारो उत्तमठे भूमीसिलाफलगमादि नायव्वा,
संथारपट्टमादी दुगवीराई बहूवावि॥ वृ. उत्तमार्थे व्यवस्थितस्य संस्तारको दातव्यो भूमिभूमिरूपः, शिला वा प्रधानशिलातलरूपः । एतौ द्वावपि अस्फुटता च झुषिरौ कर्तव्यौ, तत्र स्थितो वा निषन्नो वा यथासमाधि तिष्टतु, फलकं वा संस्तारको ज्ञातव्यः । तच्च फलकमेकाङ्गिकमानेतव्यं, तस्याभावे द्व्यादि फलकात्मकः । तस्याप्यभावे निरन्तरकं त्र्यात्मको ज्ञातव्यः एतत् आदिशब्दस्य व्याख्यानं,। इदानीमास्तरणमाह-संस्तारकोत्तरपट्ट इत्येतत्प्रस्तरणमुत्सर्गतो अपवादत आह-बहूवावि यदि सोत्तरपट्टसंस्तारकमात्रे तस्यासमाधिरुपजायते तदा बहून्यपि प्रस्तार्यते तस्य कल्पप्रभृतीतिभा.[४३४०] तह वि असंथरमाणे कुसमादीणिसु अझुसिरतणाई।
ते ससइ संथाराण झुसिरतणाइ ततो पच्छा ।। वृ.अथ कल्पप्रभृति संस्तरणेपि तस्यासमाधिरुपजायते तजा कुशादीनि दर्भादीनि अझुषिराणि तृणानि प्रस्तार्यन्ते, । तेषामसत्यभावे २६ असंस्तरणे वा सति ततः पश्चात् झुषिराणि अपि तृणान्यानीयन्ते। भा.[४३४१] कोअव पावारग नवय तूलिआलिंगिनी अभूमीए ।
एमेव अनहियासे संथारमाइपलंके॥ वृ. यदि तृणेष्वपि प्रस्तारितेषु न समाधिस्तदा कोयवो देअट्ठीए प्रस्तार्यते तत्रापि समाधिरनुत्पादे प्रावरणकस्तत्राप्यसमाधौ नवतं जीणं तत्रापि समाध्यलाभे तुली आलिङ्गिनी चोभयतः प्रस्तार्यते । एतत्सर्वं भूमौ कर्तव्यमथैवमपि नाध्यास्ते न समाधि प्राप्नोति तदा संस्तारकादिपूर्वक्रमेण पल्यङ्के प्रस्तारणीयं यावत्पर्यन्ते तूलिका उभयते आलिङ्गिनी वा गतं संस्तारकद्वारभिदानीमुद्वर्तनादिद्वारमाहभा. [४३४२] पडिलेहणसंथारं पानगउच्चत्तणाइ निग्गमनं ।
सयमेव करेइ सहू असहूस्स करेंति अन्नेउ।। वृ.यो कृतभक्तप्रत्याख्या सहः समर्थ:स स्वयमेवात्मीयस्योपकरणस्य प्रत्युपेक्षणं संस्तारकं संस्तारकप्रदानं पानकं पानकरणमुद्धर्तनादि उद्वर्तनाप्रवर्तनेऽन्तः प्रदेशात् बहिः प्रदेशादन्तः प्रवेशनं करोति । असहस्य असमर्थस्य पुनः अन्ये सर्वं कुर्वन्ति, कथमित्याह- . भा.[४३४३] कायोवचितो बलवं निक्खमणपवेसणं च से कुणइ।
तह अविसहमाणं संथारगयं तु संचारे।।। वृ.कायेन(यो)शरीरेणोपचितो बलवान् स तस्यान्तः प्रदेशाब्दहिनिष्क्रमणं बहि:प्रदेशान्तः प्रवेशनं करोति, च शब्दादन्यच्चोद्वर्तनादिकं प्रवर्तनादिकं संचार्यमाणोऽपि सोऽवष्टंभतः संचार्यत।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org