Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 491
________________ ४८८ व्यवहार-छेदसूत्रम्-२- १०/२५१ यस्मादेतस्य चरमाहारदाने गुणास्तस्मादवश्यं स दातव्यः । अथ तृष्णाव्यवच्छेदः केनाकारण तस्य वैराग्यभावना प्रवर्तत इति आहभा.[४३२५] किं च तन्नोवभुत्तं मे परिणामासुई सुई। दिठसारो सुहं ज्झाति चोयणे सेव सीयति ॥ वृ. चरमाहारे प्रदत्ते तृष्णाव्यवछेदे च जाते स एवं वैराग्यमापन्नश्चिन्तयति। किं वा तदस्ति भोज्यं यत्पूर्वगृहवासे प्रव्रज्यापर्याये वा मया नोपभुक्तं परं शुध्यते तत् भुङ्क्तं परिणामात् परिणामवशेन अशुचिः संजायते तथा आहारसंज्ञोपयुक्तो जीवः कर्मणा बन्धको भषति । तथा आहारगृद्धे निवृत्तः सुखभागी, एवं प्रत्यक्षत आगमतश्च दृष्टः सार उपलब्धतत्व सुखं धर्मध्यानं ध्यायते, तथा यदि च आहारे प्रदत्ते भूयः तत्रैवनुबन्धतः प्रसीदति तदेतस्य तदा सीदत एषैवाधिकृत-श्लोकार्थरूपा चोदना प्रत्रापना कर्तव्या झोसिज्जइ सो से तह जयणाए चउव्विहारो भा.[४३२६] तिविहं तु वोसिरोहिइ सो ताहे उक्कोसगाई दव्वाइं। मग्गित्ता जयणाए चरमाहारं पदंसंति ।। वृ.त्रिविधं मनसा वाचा कायेन भक्त प्रत्याख्यातुकाम आहारं व्युत्सृक्ष्यति । तत उत्कृष्टानि द्रव्याणि यतनया उद्गगमादिशुद्धलाभे पञ्चकपरिहान्या याचित्वा चरममाहारं तस्य प्रदर्शयन्ति। भा.[४३२७] पासित्तु तानि कोई तीरप्पत्तस्स किं मम तेहिं । वेरग्गमनुप्पत्तो संवेगपरायणो होइ ।। वृ. तानि उत्कृष्टानि द्रव्याणि दृष्ट्वा कश्चित्तीरप्राप्तस्याभ्युपगमरणसमुद्रपारमुपागतस्य ममैतै किं कार्यमित्येवं वैराग्यमनुप्राप्तः संवेगपरायणः सर्वथा निवृत्ताहाराभिलाषो भयति। भा.[४३२८] सव्वं भोच्चा कोई मणुन्नरसपरिणतो भवेज्जाहि । तं चेवनुबंधंतो देसं सव्वं च गेहीए ।। वृ. कोऽपि पुनः सर्वमुत्कृष्टं भुक्त्वा मनोज्ञरसपरिणत उत्कृष्टरसगृद्धो भवति । ततो देशं सव्वं वा गृह्यात्तमेवोत्कृष्टमाहारमनुबध्नन् अभिलषन् तिष्ठति। भा.[४३२९] विगती कयानुबंधे आहारनुबंधिणाएवोच्छेदो। परिहायमाणदव्वे गुणवुड्डि समाहि अनुकंपा। वृ.विकृतीषु कृतो योऽनुबन्धस्तस्मिन् सति आहारानुबन्धनायां च सत्यां तस्य विकृत्यनुबन्धस्याहारनुबन्धस्य च किंच नोवभुत्तं मे परिणामासुइं इति प्रकारेण व्यवच्छेदः कर्तव्यः । सम्प्रतिहानिद्वारमाह-परिहायमाणा इत्यादि यानिचरमाहारद्रव्याण्यानीतानि तानि तद्विषयमनुबन्धं कुर्वन्तः परिणामतो द्रव्यतश्च परिहीयमानानि कर्तव्यानि । अथ कि कारणं यदाहारे अनुबन्धं कुर्वन्तो भक्तं पानं च दीयते। उच्यते-गुणवुड्डिसमाहिअनुकंपा इति स भक्तं प्रत्याख्यातुकामोऽनुकम्पनीयोऽनुकम्पमानस्यासमाधिमरणप्रसक्तस्ततोऽनुकम्पते, आहारे प्रदत्ते सति तस्य समाधिरुपजायते। समाधितश्च प्रज्ञापयितुं शक्यः प्रज्ञापितश्चाहारव्यवच्छेदं करिष्यति। ततोऽभ्युद्यतमरणे गाढं ध्यानोपगतस्य गुणवृद्धिः कर्मनिर्जरा भवति। अथ चरमाहारे द्रव्याणां परिणामतो द्रव्यतश्च परिहानिः कथं कर्तव्येत्यतआह भा.[४३३०] दविय परिणामतो वा हवंति दिनेदिने जाव तिन्नि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564