________________
४४२
व्यवहार-छेदसूत्रम् -२- १०/२५१
वृ- अवधिर्द्विधा भवप्रत्ययो गुणप्रत्ययश्च । तत्र संयतानां गुणप्रत्यय एव न भवप्रत्ययस्तत आहअवधौ गुणप्रत्यये ये वर्तन्ते श्रुताङ्गविदो धीरास्तान् अवधिविषयज्ञानस्थान् जानीतं व्यवहारशोधिकरान् शुद्धव्यवहारकारिणः । [भा. ४०३०]
उज्जुमती विउलमती जे वट्टंती सुयंगवी धीरा । मनपज्जवनाणत्थे जाणसु ववहारसोहिकरे ।।
- ये जुमतौ विपुलमतौ वा मनः पर्यवज्ञाने श्रुताङ्गविदो धीरा वर्तन्ते तान्मयः पर्यवज्ञानस्थान् जानीत व्यवहारशोधिकरान शुद्धव्यवहारकारिणः ।
[भा. ४०३१]
आदिगरा धम्माणं चारित्तवरनाणदंसणसमग्गा । सव्वत्तगणाणेणं ववहारं ववहरंति जिना ।।
वृ- ये धर्मयोः श्रुतधर्मस्य चारित्रधर्मस्य चादिकरास्तत्प्रथमतया प्रवर्तनशीलाश्चारित्रवरज्ञानदर्शनसमग्रास्ते जिनाः सर्वत्रगज्ञाने व्यवहारं व्यवहरन्ति । उक्तः प्रत्यक्षः । सम्प्रति परोक्षमाह[भा. ४०३२] पच्चक्खागमसरिसो होति परोक्खो वि आगमो जस्स ।
चंदमुही विव सोवि हु आगमो ववहारवं होइ ।।
वृ- यद्यपि पूर्वादिकं श्रुतं तथापि यस्यागमश्चतुर्दशपूर्वादिकः परोक्षोऽपि प्रत्यक्षागमसदृशः प्रत्यक्षावध्यादितुल्यरूपो भवति सोप्यागमव्यवहारवान् वक्तव्यो भवति । यथा चन्द्रसदृशमुखी कन्या चन्द्रमुखीति एतदुक्तं भवति यद्यपि पूर्वाणि श्रुतं नागमतुल्यानीति ( तदपि ) तैर्व्यवहरन् आगमव्यवहारवान् उच्यते इति । सम्प्रत्यागमस्य व्याख्यानमाह
[भा. ४०३३]
नायं आगमयंति एवं जस्स सो परायत्तो । सो परोक्खो बुच्चइ तस्स पएसा इमे हुति । ।
वृ- ज्ञानमागमितमित्येकार्थमेवं च ज्ञानमागम इत्येकार्थमापतितं । तत्र यस्य स आगमोऽपराधीनः स प्रत्यक्ष उच्यते । सचावध्यादिरूपो यस्य तुपरायत्तः स परोक्ष उच्यते । सच चतुर्दशपूर्वादिसमुत्थस्तस्य परोक्षस्यागमस्य प्रदेशाः प्रतिभागा भेदा इत्यर्थः । इमे वक्ष्यमाणा भवन्ति । तानेवाह
[ भा. ४०३४ ]
पारोक्खं ववहारं आगमतो सुयधरा ववहरंति । चोदसदसपुव्वधरा नवपुव्वियगंधहत्थी य ।।
वृ-ये श्रुतधराश्चतुर्दशपूर्वरा दशपूर्वधरा नव पूर्विणो वा गन्धहस्तिनो गन्धहस्तिसमानाः से आगमतः परोक्षं व्यवहारं व्यवहरन्ति । अत्राक्षेपपरिहारावभिधित्सुराह
[भा. ४०३५ ]
किह आगम ववहारी जम्हा जीवादयो पयत्था उ ।
उवलद्धा तेहिं तू सव्वेहिं नयविगप्पेहिं ।।
वृ- कथं केन प्रकारेण साक्षात् श्रुतेन व्यवहरन्तः आगमव्यवहारिणः प्रोच्यन्ते सूरिराह यस्मात् जीवादयः पदार्थास्तैश्चतुर्दशपूर्वधरादिभिः सर्वै नयविकल्पैर्नैगमादिनयभेदैरुपलब्धाः एतदेव सविशेषमाह -
[भा. ४०३६]
Jain Education International
जह केवली वि जाणइ दव्वं च खेत्तं च कालभावं च ।
तह चउलक्खणमेवं सुयनाणीमेव जाणाति ।।
वृ- यथा केवली केवलज्ञानेन सर्वं द्रव्यं सर्वं क्षेत्रं कालं भावं च सर्वात्मना स्वपरपर्यायभेदभिन्नं जानाति
For Private & Personal Use Only
www.jainelibrary.org