________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । पञ्चम उद्देशकः ३०३ प्राण्युपमर्दनं चिकित्सोपदेशदानं करणं वा अनगारस्य साधोतिसंसारस्वभावस्य न जायते न कल्पते । ये तु कामचिकित्सां व्याधिचिकित्सां वा जीवोपमर्दैन प्रतिपादयन्ति ते बालाः अविज्ञाततत्त्वाः, तेषां वचनमवधीरणीयमेवेति भावार्थः । इति परिसमाप्त्यर्थे । ब्रवीमि इति पूर्ववदिति ॥
लोकविजयस्य पञ्चमोद्देशकटीका समाप्तेति ॥ छ ॥ छ ।
5
१. अविज्ञातत्त्वात्, तेषां क । २. इति: ग । ३. परिसमाप्त्यर्थः ङ। ४. पूर्ववत् ॥ख च । ५. विजयपञ्चमो० छ। ६. समाप्तेति पुस्तके न, परिसमाप्तेति च ।