Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 426
________________ ३९१ प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । प्रथम उद्देशकः ऽजीवा-ऽऽश्रव-बन्ध-संवर-निर्जरा-मोक्षपदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति । एवं सम्यग्दर्शन-ज्ञान- चारित्राणि मोक्षमार्गः, मिथ्यात्वा - ऽविरति - प्रमाद-कषाय- योगा बन्धहेतवः, स्व-परभावेन सदसती, तत्त्वं सामान्य- विशेषात्मकमित्यादिना प्रकारेण प्ररूपयन्ति । एकार्थिकानि वैतानीति । किं तद् 'एवमाचक्षते' इति ? दर्शयति यथा सर्वे प्राणाः सर्व एव पृथिव्यप्तेजो - वायु-वनस्पतयो द्वि-त्रि- चतु:पञ्चेन्द्रियाश्च, इन्द्रिय-बलोच्छ्वास- निश्वासा -ऽऽयुष्कलक्षणप्राणधारणात् प्राणाः । तथा सर्वाणि भवन्ति भविष्यन्त्यभूवन्निति च भूतानि चतुर्दशभूतग्रामान्त:पातीनि । एवं सर्व एव जीवन्ति जीविष्यन्ति अजीविषुरिति जीवाः नारकतिर्यङ्-नरा-: - ऽमरलक्षणाश्चतुर्गतिकाः । तथा सर्व एव स्वकृतसाताऽसातोदयसुख-दुःखभाजः सत्त्वाः । एकार्था वैते शब्दाः, 'तत्त्वभेदपर्यायैः प्रतिपादनम्' इति कृत्वेति । 5 10 एते च सर्वेऽपि प्राणिनः पर्यायशब्दावेदिता न हन्तव्या दण्ड- कशादिभिः, नाज्ञापयितव्याः प्रसह्याभियोगदानतः, न परिग्राह्या भृत्य - दास-दास्यादिममत्वपरिग्रहतः, न परितापयितव्याः शारीर- मानसपीडोत्पादनतः, नापद्राव- 15 यितव्याः प्राणव्यपरोपणतः । १. ०ऽऽस्त्रव० ग घ ङ ०ऽऽश्रव संवर- निर्जरा-बन्ध-मोक्ष० ख ०ऽऽश्रव-संवरबन्ध - निर्जरा० च । २. च इति गतौ न । ३. ०व्याः इति शारीर० ख - चप्रती विना । ४. ०पीडोत्पादनैः, नापद्रापयितव्याः ख । ५ ० धिग्जातीना० कपुस्तकमृते । ६. अप्रच्युतरूपः क। ७. पञ्चसु विदेहेषु ख च । ८. " न तु इति कूटस्थनित्यतां निराचष्टे, नित्यमपि सोऽपि न नित्यः " जै०वि०प० । ९. अभव्यत्ववत् ङ । एषः अनन्तरोक्तः धर्मः दुर्गत्यर्गला - सुगतिसोपानदेश्यः । अस्य च प्रधानपुरुषार्थत्वाद् विशेषणं दर्शयति-शुद्धः पापानुबन्धरहितः, न शाक्यधिग्जातीयनामिवैकेन्द्रिय-पञ्चेन्द्रियवधानुमतिकलङ्काङ्कितः । तथा नित्यः अप्रच्युतिरूपः पञ्चस्वपि विदेहेषु सदाभवनात् । तथा शाश्वतः शाश्वतगति - 20 हेतुत्वात्, यदि वा नित्यत्वात् शाश्वतः, न तु नित्यं भूत्वा न भवति भव्यत्ववत्, अभूत्वा च नित्यं भवति घटाभाववदिति, अयं तु त्रिकालावस्थायीति ।

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472