Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
४०६
४०६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
[सू०१३६] आवंती केआवंती लोयंसि समणा य माहणा य पुढो विवादं वदंति से दिटुं च णे, सुयं च णे, मयं च णे, विण्णायं च णे, उड़े अहं तिरियं दिसासु सव्वतो
सुपडिलेहितं च णे-'सव्वे पाणा सव्वे जीवा सव्वे भूता 5 सव्वे सत्ता हंतव्वा, अज्जावेतव्वा, परिघेतव्वा,
परितावेतव्वा, उद्दवेतव्वा । एत्थ वि जाणह णत्थेत्थ दोसो' अणारियवयणमेयं ।
आवंतीत्यादि । आवंतीति यावन्तः । केआवंतीति केचन । लोके मनुष्यलोके । श्रमणा: पाषण्डिकाः । ब्राह्मणाः द्विजातयः । पृथक् पृथग् 10 विरुद्धो वादो विवादस्तं वदन्ति । एतदुक्तं भवति–यावन्तः केचन परलोकं
ज्ञीप्सवस्ते आत्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्तो विवदन्ते, तथाहिभागवता ब्रुवते–'पञ्चविंशतितत्त्वपरिज्ञानाद् मोक्षः, सर्वव्याप्यात्मा निष्क्रियो निर्गुणश्चैतन्यलक्षणः, निर्विशेषं सामान्यं तत्त्वम्' इति । वैशेषिकास्तु भाषन्ते
"द्रव्यादिषट्पदार्थपरिज्ञानाद् मोक्षः, समवायिज्ञानगुणेनेच्छाप्रयत्नद्वेषादिभिश्च 15 गुणैर्गणवानात्मा, परस्परनिरपेक्षं सामान्य-विशेषात्मकं तत्त्वम्" इति । शाक्यास्तु
वदन्ति यथा-"परलोकपथानुयाय्यात्मैव न विद्यते, निःसामान्यं वस्तु क्षणिकं च" इति । मीमांसकास्तु मोक्ष-सर्वज्ञाभावेन व्यवस्थिता इति । तथा केषाञ्चित् पृथिव्यादय एकेन्द्रिया जीवा न भवन्ति । अपरे वनस्पतीनामप्य
चेतनतामाहुः, तथा द्वीन्द्रियादीनामपि कृम्यादीनां न जन्तुस्वभावं प्रतिपद्यन्ते, 20 तद्भावे वा न तद्वधे बन्धोऽल्पबन्धता वेति, तथा हिंसायामपि भिन्नवाक्यता, तदुक्तम्
___ १. केआवंति त्ति केचन च । २. लोके इति खपुस्तके न । ३. परलोकज्ञीप्सव० ङ। ४. दर्शनमपवदन्ते तथाहि ख । ५. सामान्यतत्त्वम् ख । ६. समवायज्ञान० क । ७.
परलोकानुया० क-खपुस्तके ऋते । ८. न्याय्यात्मा न विद्यते ख च । ९. सद्भावे वा . तद्वधेऽल्पबन्धता चेति ख, सद्भावे वा न च । १०. चेति क ।

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472