Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
४१५
प्रथमे श्रुतस्कन्धे चतुर्थे सम्यक्त्वाध्ययने तृतीय उद्देशकः भवन्त्येव, एतद् अनुविचिन्त्य पर्यालोच्य पश्य अवगच्छ । के चोपरतदण्डाः ? इत्यत आह
जे केइ इत्यादि । ये केचन अवगतधर्माणः सत्त्वा: प्राणिनः पलितम् इति कर्म तत् त्यजन्ति, ये चोपरतदण्डा भूत्वाऽष्टप्रकारं कर्म घ्नन्ति ते विद्वांसः इत्येतद् अनुविचिन्त्य अक्षिनिमीलनेन पर्यालोच्य पश्य विवेकिन्या मत्या- 5 ऽवधारय । के पुनरशेषकर्मक्षयं कुर्वन्ति ? इत्यत आह
नेरा इत्यादि । नराः मनुष्याः, त एवाशेषकर्मक्षयायालम्, नान्ये । तेऽपि न सर्वे, अपि तु मृतार्चा, मृतेव संस्काराभावाद् अर्चा शरीरं येषां ते तथा, निष्प्रतिकर्मशरीरा इत्यर्थः । यदि वा अर्चा तेजः, स च क्रोधः, स च कषायोपलक्षणार्थः, ततश्चायमर्थः-मृता विनष्टा अर्चा कषायरूपा येषां ते 10 मृतार्चाः अकषायिण इत्यर्थः । किञ्च-धर्मं श्रुत-चारित्राख्यं विदन्तीति धर्मविदः । इति हेतौ । यत एव धर्मविदोऽत एव ऋजव: कौटिल्यरहिताः ।
स्यादेतत्-किमालम्ब्यैतद्विधेयम् ? इत्यत आह-आरंभजमित्यादि । सावधक्रियानुष्ठानमारम्भः तस्माज्जातम् आरम्भजम् । किं तत् ? दुःखम् । इदम् इति सकलप्राणिप्रत्यक्षम्, तथाहि-कृषिसेवावाणिज्याद्यारम्भप्रवृत्तो यत् शारीर- 15 मानसं दुःखमनुभवति तद् वाचामगोचर इति अतः प्रत्यक्षाभिधायिना इदमा उक्तम् । इतिः उपप्रदर्शने, इत्येतदनुभवसिद्धं दुःखं ज्ञात्वा मृतार्चा धर्मविद ऋजवश्च भवन्तीति ।
एतच्च समस्तवेदिनो भाषन्त इति दर्शयति–एवमित्यादि । एवं पूर्वोक्तप्रकारेण आहुः उक्तवन्तः । के एवमाहुः ? समत्वदर्शिनः सम्यक्त्वदर्शिन: 20 समस्तदशिनो वा, यदुद्देशकादेरारभ्योक्तं तदेवमूचुरित्यर्थः ।
कस्मात् त एवमूचुः ? इत्याह-ते सव्वे इत्यादि । यस्मात् ते सर्वेऽपि
१. अनुचिन्त्य चपुस्तकं विना । २. अवगच्छये( ये:?) ख । ३. अनुचिन्त्य ग । ४. पुनः शेषकर्म० च । ५. नरे गविना । ६. निष्कषायिण इति यावत् ख, अकषायिण इति यावत् च । ७. इत्याह-आरंभज इत्यादि ख च । ८. ०हि-कृषि-वाणिज्या० ख, ०हिसेवा-वाणिज्या० घ । ९. धर्मवेदिनः ख । १०. एतत् समस्त० घ । ११. एवं इत्यादि ख च। १२. कस्मात् तदूचुः क ग, कस्मात् ते ऊचुः घ च, ङप्रतौ पाठभङ्गः ।

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472