Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
४२०
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे पर्यालोचय, यत् शक्नोषि तत्र नियोजयेरित्यर्थः । तथा जर शरीरकं जरीकुरु तपसा तथा कुरु यथा जेराजीर्णमिव प्रतिभासते, विकृतिपरित्यागद्वारेणात्मानं नि:सारतामापादयेरित्यर्थः ।।
किमर्थमेतत् ? इति चेद् आह-जहा इत्यादि । यथा जीर्णानि 5 नि:साराणि काष्ठानि हव्यवाहः हतुभुक् प्रमथ्नाति शीघ्रं भस्मसात् करोति ।
दृष्टान्तं प्रदर्श्य दार्टान्तिकमाह-एवं अत्तसमाहिए । एवम् अनन्तरोक्तदृष्टान्तप्रकारेण आत्मना समाहितः आत्मसमाहितः ज्ञान-दर्शन-चारित्रोपयोगेन सदोपयुक्त इत्यर्थः । आत्मा वा समाहितोऽस्येति आत्मसमाहितः, सदा
शुभव्यापारवानित्यर्थः, आहिताग्न्यादि-दर्शनाद् आर्षत्वाद् वा निष्ठान्तस्य 10 परनिपातः, यदि वा प्राकृते पूर्वोत्तर-निपातोऽतन्त्रः, समाहितात्मेत्यर्थः । अस्निह:
स्नेहरहितः संस्तपोऽग्निना कर्मकाष्ठं दहतीति भावार्थः । एतदेव दृष्टान्तदार्टान्तिकगतमर्थं नियुक्तिकारो गाथयोपसञ्जिघृक्षुराह
जह खलु झुसिरं कटु सुचिरं सुक्खं लहुं डहइ अग्गी ।
तह खलु खवेंति कम्मं सम्मं चरणट्ठिया साहू ॥२३६॥ 15 जह खलु झुसिरं गाहा । गतार्था ॥२३६।। अत्र चास्निहपदेन रागनिवृत्ति विधाय द्वेषनिवृत्तिं विधित्सुराह
[ सू०१४२] विगिंच कोहं अविकं पमाणे इमं निरुद्धाउयं सपेहाए । दुक्खं च जाण अदुवाऽऽगेमस्सं । पुढो
१. नियोजयेदित्यर्थः घ-टुपुस्तके ऋते । २. जराजीर्णमिति ख ङ । ३. ०मापादयेदित्यर्थः क ग, ०मापादयेत्यर्थः ख च । ४. किमर्थमित्येतत् ? ख च । ५. प्राश्नाति ख । ६. दार्टान्तिकं करोति-एवमंतसमाहिए ख । ७. एवमत्तसमाहिए च । ८. सदोपयोग क । ९. सदा इति चप्रतौ न । १०. अस्नेहः ख च । ११. ०दान्तिकमर्थं ग । १२. नियुक्तिगाथयोप० ख । १३. सुसिरं क छ । १४. कटु सुक्कं सुचिरं लहुं च । १५. सुक्कं ठ । १६. खविंति झ, खवंति ठ । १७. चरणे ठिआ ख, चरणे ठिया ज झ ज । १८. साहू ॥२३६॥ क्ख ।। क, साहू ॥२३६ ॥छ।। चतुर्थे तृतीयः ॥ चतुर्थाध्ययननियुक्तिः ॥ झ, साहू ॥२३६॥ छ । सम्मत्तस्स णिज्जुत्ती समत्ता ॥ ज, साहू ॥ २३६॥ च०ऽध्य०3० ३ निर्यु० ॥ चतुर्थोद्देशकस्य नास्ति ॥ समाप्ता च०ऽध्य०नियुक्तिः । ठ।

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472