Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 454
________________ प्रथमे श्रुतस्कन्धे चतुर्थे सम्यक्त्वाध्ययने तृतीय उद्देशकः ४१९ आज्ञाकाङ्क्षी सर्वज्ञोपदेशानुष्ठायी, यश्चैवम्भूतः स पण्डितः विदितवेद्यः अस्निहो भवति, स्निह्यते श्लिष्यतेऽष्टप्रकारेण कर्मणेति स्निहः, न स्निहोऽस्निहः। यदि वा स्निह्यतीति स्निहः रागवान् यो न तथा सोऽस्निहः, उपलक्षणार्थत्वाच्चास्य राग-द्वेषरहित इत्यर्थः । अथवा निश्चयेन हन्यत इति निहतः भावरिपुभिरिन्द्रिय-कषाय-कर्मभिः, यो न तथा सोऽनिहतः । इह प्रवचने 5 आज्ञाकाङ्क्षी पण्डितो भावरिपुभिरनिहतः, नान्यत्र, यश्चानिहतः स परमार्थतः कर्मणः परिज्ञाता । यश्चैवम्भूतः स किं कुर्यात् ? इत्याह एगमप्पाणमित्यादि । सः अनिहतोऽस्निहो वाऽऽत्मानम् एकं धनधान्य-हिरण्य-पुत्र-कलत्र-शरीरादिव्यतिरिक्तं प्रेक्ष्य पर्यालोच्य धुनीयात् शरीरकम् । सम्भावनायां लिङ् सर्वस्मादात्मानं व्यतिरिक्तं पश्यतः सम्भाव्यत 10 एव एतच्छरीरविधूननमिति । तच्च कुर्वता संसारस्वभावैकत्वभावनैवंरूपा भावयितव्या संसार एवायमनर्थसारः, कः कस्य कोऽत्र स्वजनः परो वा ? । सर्वे भ्रमन्तः स्वजनाः परे च, भवन्ति भूत्वा न भवन्ति भूयः ॥ विचिन्त्यमेतद्भवताऽहमेको, न मेऽस्ति कश्चित् पुरतो न पश्चात् । स्वकर्मभिर्धान्तिरियं ममैव, अहं पुरस्तादहमेव पश्चात् ॥ सदैकोऽहं न मे कश्चिद्, नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥ [ ] तथाएकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् ।। जायत्येको व्रजत्येकः, एको याति भवान्तरम् ॥ [ ] इत्यादि । किञ्च–कसेहि अप्पाणं जरेहि अप्पाणं, परव्यतिरिक्त आत्मा शरीरं तत् कष्टतपश्चरणादिना कृशं कुरु । यदि वा कष कस्मै कर्मणे अलमित्येवं 20 १. सम्भाव्यत एतच्छ० क-घप्रती विना । २. भावयितव्येति कपुस्तकमृते । ३. भुङ्क्ते एकश्च तत्फलम् चूर्णौ । ४. जायते एयते चैक, एको घ, जायते अयते चैक, एको ङ, जायत्येको म्रियत्येको( क), एको चूर्णौ । ५. कस्से अप्पाणं ख, कसे अप्पाणं जरे अप्पाणं ग ।

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472