Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
प्रथमे श्रुतस्कन्धे चतुर्थे सम्यक्त्वाध्ययने चतुर्थ उद्देशकः जस्स नत्थीत्यादि, यस्य कस्यचिदविशेषितस्य कर्मादान श्रोतोगृद्धस्य बालस्याव्यवच्छिन्नबन्धनस्यानभिक्रान्तसंयोगस्याज्ञानतमसि वर्तमानस्य पुरा पूर्वजन्मनि बोधिलाभो नास्ति सम्यक्त्वं नासीत्, पश्चादपि एष्येऽपि जन्मनि न भावि, मध्ये मध्यजन्मनि तस्य कुतः स्यात् ? इति । एतदुक्तं भवति - यस्यैव पूर्वं बोधिलाभः संवृत्तो भविष्यति वा तस्यैव वर्तमानकाले भवति, येन हि 5 सम्यक्त्वमास्वादितं पुनर्मिथ्यात्वोदयात् तत् प्रच्यवते तैस्यापार्धपुद्गलावर्तेनापि कालेनावश्यं तत्सद्भावात्, न ह्ययं सम्भवोऽस्ति - प्रच्युतसम्यक्त्वस्य पुनरसम्भव एवेति । अथवा निरुद्धेन्द्रियोऽपि आदान श्रोतोमृद्ध इत्युक्तः, तद्विपर्ययभूतस्य त्वतिक्रान्तसुखस्मरणमकुर्वतः आगामि च दिव्याङ्गनाभोगमनभिकाङ्क्षतो वर्तमानसुखाभिष्वङ्गोऽपि नैव स्यादित्येतद् दर्शयितुमाह-जस्स नत्थि इत्यादि । 10 यस्य भोगविपाकवेदिनः पूर्वभुक्तानुस्मृतिर्नास्ति, नापि पाश्चात्त्यकालभोगाभिलाषिता विद्यते, तस्य व्याधिचिकित्सारूपान् भोगान् भावयतः मध्ये वर्तमानकाले कुतो भोगेच्छा स्यात् ? मोहनीयोपशमान्नैव स्यादित्यर्थः । यस्य 'तु त्रिकालविषया भोगेच्छा निवृत्ता स किम्भूतः स्यात् ? इत्याह
४२७
से हु इत्यादि । हुः यस्मादर्थे, यस्माद् निवृत्तभोगाभिलाषस्तस्मात् स 15 प्रज्ञानवान् प्रकृष्टं ज्ञानं प्रज्ञानं जीवा - ऽजीवादिपरिच्छेत्तृ तद्विद्यते यस्यासौ प्रज्ञानवान् । यत एव प्रज्ञानवान् अत एव बुद्धः अवगततत्त्वः । यत एवम्भूतोऽत एवाह - आरंभोवरए सावद्यानुष्ठानमारम्भस्तस्मादुपरतः आरम्भोपरतः । एतच्चारम्भोपरमणं शोभनमिति दर्शयन्नाह—
सम्ममित्यादि । यदिदं सावद्यारम्भोपरमणं सम्यगेतत् शोभनमेतत्, सम्यक्त्वकार्यत्वाद्वा सैम्यक्त्वमेतदिति एवं पश्यत एवं गृह्णीत यूयमिति । किमित्यारम्भोपरमणं सम्यक् ? 'इति चेद्, आह
१. णत्थि इत्यादि ख च । २. ० स्त्रोतो० ग घ ङ । ३. ०मासादितं ख च । ४. तत् इति नास्ति ख-गप्रत्योः । ५. तस्योपार्ध० कआदर्शमृते । ६. ० नावश्यं ख । ७. तद्भावात् क । ८. प्रच्युतस्य सम्य० च । ९. ० स्रोतो० ग घ ङ । १०. त्वनिष्क्रान्त० क घ । ११. ० विपाकाssवेदिनः क । १२. मोहनीयस्योपशमा० च । १३. गपुस्तके तु इति न । १४. सममित्यादि च । १५. सम्यक्त्वमिति ख । १६ इति तदाह क ।
20

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472