Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
___ प्रथमे श्रुतस्कन्धे चतुर्थे सम्यक्त्वाध्ययने चतुर्थ उद्देशकः ४२५ तेषामिति । यथा च तन्मार्गानुचरणं कृतं भवति तद् दर्शयति
विगिंच इत्यादि । मांस-शोणितं दर्पकारि विकृष्टतपोऽनुष्ठानादिना विवेचय पृथक्कुरु, तद्धासं विधेहीति यावत्, एवं वीराणां मार्गानुचरणं कृतं भवतीति भावः । यश्चैवम्भूतः स कं गुणमवाप्नुयात् ? इत्याह___एस इत्यादि । एषः मांस-शोणितयोरपनेता, पुरि शयनात् पुरुषः, द्रवः 5 संयमः स विद्यते यस्यासौ द्रविकः मत्वर्थीयष्ठन्, द्रव्यभूतो वा मुक्तिगमनयोग्यत्वात्, कर्मरिपुविदारणसहिष्णुत्वाद् वीर इति । मांस-शोणितापचयप्रतिपादनाच्च तदुत्तरेषामपि मेदआदीनामपचय उक्त एव द्रष्टव्यः, तद्भावभावित्वात् तेषामिति । किञ्च
आयाणिज्जे इत्यादि । स वीराणां मार्गं प्रतिपन्नः मांस-शोणितयो- 10 रपनेता मुमुक्षूणाम् आदानीयः ग्राह्य आदेयवचनश्च व्याख्यात इति । कश्चैवम्भूतः ? इत्याह
जे धुणाइ इत्यादि । ब्रह्मचर्ये संयमे मदनपरित्यागे वोषित्वा यः समुच्छ्रयं शरीरं कर्मोपचयं वा तपश्चरणादिना धुनाति कृशीकरोति स आदानीय इति विविधमाख्यातो व्याख्यात इति सम्बन्धः । उक्ता अप्रमत्ताः । तद्विधर्मिणस्तु 15 प्रमत्तानभिधित्सुराह
[सू०१४४ ] णेतेहिं पलिछिण्णेहिं आताणसोतगढिते बाले अव्वोच्छिण्णबंधणे अणभिक्कंतसंजोए ।
तमंसि अविजाणओ आणाए लंभो णत्थि त्ति बेमि ।
णेत्तेहिं इत्यादि । नयन्त्यर्थदेशम् अर्थक्रियासमर्थमर्थमाविर्भावयन्तीति 20 नेत्राणि चक्षुरादीनीन्द्रियाणि तैः, परिच्छिन्नैः यथास्वविषयग्रहणं प्रति निरुद्धैः सद्भिरादानीयोऽपि भूत्वोषित्वा ब्रह्मचर्ये पुनर्मोहोदयाद् आदान श्रोतोगृद्धः
१. वा ग । २. कर्मरिपुदारणक, कर्मरिपुविदारणः च । ३. ०शोणितापनयापादनाच्च ग । ४. आयाणिजे क, आयाणिज्जा ख, आयाणिज्जेत्यादि ग । ५. शरीरकं घ ङ। ६. णित्तेहिं ग, णेत्तेहि घ, णेतेहिं ङ। ७. ०मर्थं वाविर्भाव० ङ। ८. पलिच्छिन्नैः क । ९. यथास्वं विषय० क-खप्रती विना । १०. ० दयादान० क ख घ । ११. ०स्रोतो० ग घ ङ।

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472