Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 461
________________ ४२६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे आदीयते सावद्यानुष्ठानेन स्वीक्रियते इत्यादानं कर्म संसारबीजभूतम्, तस्य श्रोतांसि इन्द्रियविषया मिथ्यात्वा-ऽविरति-प्रमाद-कषाय-योगा वा तेषु गृद्धः अध्युपपन्नः स्यात् । कोऽसौ ? बालः अज्ञो राग-द्वेष-महामोहाभिभूतान्तःकरणः। यश्चादानश्रोतोगृद्धः स किम्भूतः स्यात् ? इत्याहअव्वोच्छिन्नबंधणे इत्यादि । अव्यवच्छिन्नं जन्मशतानुवृत्ति बन्धनम् अष्टप्रकारं कर्म यस्य स तथा । किञ्च-अणभिक्कत इत्यादि, अनभिक्रान्तः अनतिलङ्घितः संयोगः धन-धान्य-हिरण्य-पुत्र-कलत्रादिकृतोऽसंयमसंयोगो वा येनासावनभिक्रान्तसंयोगः, तस्य चैवम्भूतस्येन्द्रियानुकूल्यरूपे मोहात्मके वा तमसि वर्तमानस्य, आत्महितं मोक्षोपायं वाऽविजानतः आज्ञायाः तीर्थकरोप10 देशस्य लाभो नास्ति इति एतदहं ब्रवीमीति तीर्थकरवचनोपलब्धसद्भाव इति । यदि वा आज्ञा बोधिः सम्यक्त्वम्, अस्तिशब्दश्च निपातस्त्रिकालविषयी, तेनायमर्थः-तस्यानभिक्रान्तसंयोगस्य भावतमसि वर्तमानस्य बोधिलाभो नासीन्नास्ति न भावीति । ऐतदेवाह [सू०१४५ ] जस्स णत्थि पुरे पच्छा मज्झे तस्स कुओ 15 सिया ? से हु पन्नाणमंते बुद्धे आरंभोवरए । सम्ममेतं ति पासहा । जेण बंधं वहं घोरं परितावं च दारुणं । पलिछिंदिय बाहिरगं च सोतं णिक्कम्मदंसी इह 20 मच्चिएहिं । कम्मुणा सफलं दटुं ततो णिज्जाति वेदवी । १. स्रोतांसि ग घ ङ। २. इन्द्रियमिथ्यात्वा० क, इन्द्रियविषय-मिथ्यात्वा० घ ङ। ३. स्रोतो० घ ङ। ४. ०बंधणो ख च । ५. अणभिक्कंत कपुस्तकमृते । ६. ०न्त: नाभिलचितः ख । ७. ०कृतो वाऽसंयम० ख । ८. ०वनतिलङ्घितः ख । ९. तस्यैवम्भूत० क ग । १०. लम्भो क । ११. ब्रवीमि तीर्थ० ख च । १२ ०शब्दश्चायं निपात० क-गप्रती ऋते । १३. एतदाह ख ।

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472