Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust
View full book text
________________
प्रथमे श्रुतस्कन्धे चतुर्थे सम्यक्त्वाध्ययने चतुर्थ उद्देशकः ४२९ दानादाश्रवाद्वा निश्चयेन याति निर्याति निर्गच्छति, तन्न विधत्त इति यावत् । कोऽसौ वेदवित् वेद्यते सकलं चरा-ऽचरमनेनेति वेदः आगमस्तं वेत्तीति वेदवित् सर्वज्ञोपदेशवर्तीत्यर्थः । न केवलस्य ममैवायमभिप्रायः, सर्वेषामेव तीर्थकराणामयमाशय इति दर्शयितुमाह
[ सू०१४६] जे खलु भो वीरा समिता सहिता सदा 5 जता संथडदंसिणो आतोवरता अहा तहा लोगं उवेहमाणा पाईणं पडीणं दाहिणं उदीणं इति सच्चंसि परिविचिटुिंसु ।
__ साहिस्सामो णाणं वीराणं समिताणं सहिताणं सदा जताणं संथडदंसीण आतोवरताणं अहातहा लोकमुवेहमाणाणं-किमत्थि उवधी पासगस्स, ण विज्जति ? णत्थि 10 त्ति बेमि ।
॥ चउत्थमज्झयणं सम्मत्तं ॥ जे खलु भो वीरा इत्यादि । यदि वा उक्तः सम्यग्वादो निरवद्यं तपश्चारित्रं च । अधुना तत्फलमुच्यते
जे खलु इत्यादि । खलुशब्दः वाक्यालङ्कारे, ये केचनातीता-ऽनागत- 15 वर्तमानाः भो इत्यामन्त्रणे, वीराः कर्मविदारणसहिष्णवः, समिताः समितिभिः, सहिताः ज्ञानादिभिः, सदा यताः सत्संयमेन, संथडदंसिणो त्ति निरन्तरदर्शिनः शुभा-ऽशुभस्य, आत्मोपरताः पापकर्मभ्यः, यथातथा अवस्थितं लोकं चतुर्दशरज्ज्वात्मकं लोकं कर्मलोकं वोपेक्षमाणाः पश्यन्तः सर्वासु प्राच्यादिषु
१. ०दास्रवाद्वा घ । २. ०वर्ती । न ख । ३. केवलमस्य ममैवा० क, केवलं ममैवा० घ ङ । ४. धीरा च । ५. जे य खल ख । ६. समितिभिः समिताः ग । ७. यतास्तत्सम्भवे च संथड० ख । ८. संघड० घ ङ । ९. घ-ड-चप्रतिषु लोकं इति नास्ति । १०. सर्वासु दिक्षु प्राच्यादिषु व्यव० ख ।।

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472