Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 443
________________ ४०८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे कर्माणस्तेषां प्राण्युपघातकारीदं वचनम् । ये तु तथाभूता न ते किम्भूतं प्रज्ञापयन्ति ? इत्याह [ सू०१३७ ] तत्थ जे ते आरिया ते एवं वदासी-से दुद्दिट्ठ चभे, दुस्सुयं च भे, दुम्मयं च भे, दुव्विण्णायं च भे, उड्डुं अहं 5 तिरियं दिसासु सव्वतो दुप्पडिलेहितं च भे, जं ञं तुब्भे एवं आयक्खह, एवं भासह, एवं पण्णवेह, एवं परूवेह - 'सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता हंतव्वा, अज्जावेतव्वा, परिघेत्तव्वा, परितावेयव्वा, उद्दवेतव्वा । एत्थ वि जाणह णत्थेत्थ दोसो ।' अणारियवयणमेयं । 10 तत्थ इत्यादि । तत्र इति वाक्योपन्यासार्थे निर्धारणे वा । ये ते आर्याः देश-भाषा-चारित्रार्यास्त एवमवादिषुः यथा - यत् तदनन्तरोक्तं दुर्दृष्टमेतत्, दुष्टं दृष्टं दुर्दृष्टम्, भे युष्माभिर्युष्मत्तीर्थकरेण वा, एवं यावद् दुष्प्रत्युपेक्षितमिति । तदेवं दुर्दृष्टादिकं प्रतिपाद्य दुष्प्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाविष्करणमाह जं णमित्यादि । णमिति वाक्यालङ्कारे । यत् एतद्वक्ष्यमाणं यूयमेवमा15 चड्ढ्वमित्यादि यावद् अत्रापि यागोपहारादौ जानीथ यूयं यथा नास्त्येव अत्र प्राण्युपमर्दानुष्ठाने दोषः पापानुबन्ध इति । तदेवं परवादे दोषाविर्भावनेन धर्मविरुद्धतामाविर्भाव्य स्वमतवादमार्या आविर्भावयन्ति-— [सू०१३८ ] वयं पुण एवमाचिक्खामो, एवं भासामो, एवं पण्णवेमो, एवं परूवेमो-' सव्वे पाणा सव्वे १. प्राणिघात० ग । २. ये तु न तथाभूता ते ख । ३. तत्थेत्यादि ख । ४. यथाएतदनन्त० ख, यथा- तद् यदनन्त० च । ५. भे इति गतौ न । ६. " प्रज्ञापनानुवाद इति ब्रह्मणादिकृता (तां?) 'सव्वे भूया न हंतव्वा' इत्यादिकां परिवर्तमान इति" जै०वि०प० । ७. जमित्यादि क । ८. यथा अस्त्येव घ ङ । ९. परिवादे क ग ।

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472