________________
४०८
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
कर्माणस्तेषां प्राण्युपघातकारीदं वचनम् । ये तु तथाभूता न ते किम्भूतं प्रज्ञापयन्ति ? इत्याह
[ सू०१३७ ] तत्थ जे ते आरिया ते एवं वदासी-से दुद्दिट्ठ चभे, दुस्सुयं च भे, दुम्मयं च भे, दुव्विण्णायं च भे, उड्डुं अहं 5 तिरियं दिसासु सव्वतो दुप्पडिलेहितं च भे, जं ञं तुब्भे एवं आयक्खह, एवं भासह, एवं पण्णवेह, एवं परूवेह - 'सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता हंतव्वा, अज्जावेतव्वा, परिघेत्तव्वा, परितावेयव्वा, उद्दवेतव्वा । एत्थ वि जाणह णत्थेत्थ दोसो ।' अणारियवयणमेयं ।
10
तत्थ इत्यादि । तत्र इति वाक्योपन्यासार्थे निर्धारणे वा । ये ते आर्याः देश-भाषा-चारित्रार्यास्त एवमवादिषुः यथा - यत् तदनन्तरोक्तं दुर्दृष्टमेतत्, दुष्टं दृष्टं दुर्दृष्टम्, भे युष्माभिर्युष्मत्तीर्थकरेण वा, एवं यावद् दुष्प्रत्युपेक्षितमिति । तदेवं दुर्दृष्टादिकं प्रतिपाद्य दुष्प्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाविष्करणमाह
जं णमित्यादि । णमिति वाक्यालङ्कारे । यत् एतद्वक्ष्यमाणं यूयमेवमा15 चड्ढ्वमित्यादि यावद् अत्रापि यागोपहारादौ जानीथ यूयं यथा नास्त्येव अत्र प्राण्युपमर्दानुष्ठाने दोषः पापानुबन्ध इति । तदेवं परवादे दोषाविर्भावनेन धर्मविरुद्धतामाविर्भाव्य स्वमतवादमार्या आविर्भावयन्ति-—
[सू०१३८ ] वयं पुण एवमाचिक्खामो, एवं भासामो, एवं पण्णवेमो, एवं परूवेमो-' सव्वे पाणा सव्वे
१. प्राणिघात० ग । २. ये तु न तथाभूता ते ख । ३. तत्थेत्यादि ख । ४. यथाएतदनन्त० ख, यथा- तद् यदनन्त० च । ५. भे इति गतौ न । ६. " प्रज्ञापनानुवाद इति ब्रह्मणादिकृता (तां?) 'सव्वे भूया न हंतव्वा' इत्यादिकां परिवर्तमान इति" जै०वि०प० । ७. जमित्यादि क । ८. यथा अस्त्येव घ ङ । ९. परिवादे क ग ।