________________
४०७
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । द्वितीय उद्देशकः प्राणी प्राणिज्ञानम्, घातकचित्तं च तद्गता चेष्टा ।
प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥ [ इत्येवमादिक औद्देशिकपरिभोगाभ्यनुज्ञादिकश्च विरुद्धो वादः स्वत एवाभ्यूह्यः । यदि वा ब्राह्मण-श्रमणा धर्मविरुद्धं वादं यद् वदन्ति तत् सूत्रेणैव दर्शयति
से दिटुं च णे इत्यादि यावत् नत्थित्थ दोसो । से त्ति तच्छब्दार्थे । य- 5 दहं वक्ष्ये तत् दृष्टम् उपलब्धं दिव्यज्ञानेनास्माभिरस्माकं वा सम्बन्धिना तीर्थकृताऽऽगमप्रणायकेन । चशब्दः उत्तरापेक्षया समुच्चयार्थः । श्रुतं चाऽस्माभिर्गुर्वादेः सकाशात्, अस्मद्गुरुशिष्यैर्वा तदन्ते वासिभिः । मतम् अभिमतं युक्तियुक्तत्वाद् अस्माकमस्मात्तीर्थकराणां वा । विज्ञातं च तत्त्वभेदपर्यायैरस्माभिरस्मत्तीर्थकरेण वा स्वतः, न परोपदेशदानेन । एतच्चोर्धा-ऽधस्तिर्यक्षु 10 दशस्वपि दिक्षु सर्वतः सर्वैरपि प्रत्यक्षानुमानोपमानागमार्थापत्त्यादिभिः प्रकारैः सुष्ठ प्रत्युपेक्षितं च पर्यालोचितं च, मन:प्रणिधानादिना अस्माभिरस्मत्तीर्थकरेण वा । किं तत् ? इत्याह
सर्वे प्राणाः सर्वे जीवाः सर्वे भूताः सर्वे सत्त्वा हन्तव्या आज्ञापयितव्या परिग्रहीतव्या परितापयितव्या अपद्रापयितव्याः । अत्रापि 15 धर्मचिन्तायामप्येवं जानीथ यथा नास्त्यत्र यागार्थं देवतोपयाचितकतया वा प्राणिहननादौ दोषः पापानुबन्ध इति । एवं यावन्तः केचन पॉषण्डिका औद्देशिकभोजिनो ब्राह्मणा वा धर्मविरुद्धं परलोकविरुद्धं वा वादं भाषन्ते । अयं च जीवोपमर्दकत्वात् पापानुबन्धी अनार्यप्रणीत ईति, आह च-अणारिय इत्यादि आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः, तद्विपर्यासाद् अनार्याः क्रूर- 20
१. प्राणा ग । २. प्राणज्ञानं ख । ३. "तद्गता घातगता'' जै०वि०प० । ४. ०भ्यनुज्ञानादिकश्च ख । ५. ब्राह्मणा: च । ६. वादं इति गप्रतौ न । ७. णेत्यादि क । ८. णत्थेत्थ क ग च । ९. दोसो इत्यादि । से त्ति तच्छब्दार्थः । ख, दोसो त्ति । से त्ति ग च। १०. ०वासिभिर्वा । च । ११. च इति खपुस्तके नास्ति, च भेदपर्यायै० घ । १२. ०त्तीर्थकराणां वा ख । १३. एतच्चोर्ध्वा० घ ङ। १४. सर्वैः प्रत्यक्षा० ख च । १५. ०तं मन:प्रणिधानेन अस्माभि० ग । १६. अपद्रावयितव्याः ख च । १७. “चिन्तायामपि इति न केवलना(मा)रम्भादौ' जै०वि०प० । १८. पाषण्डिशब्दका ख । १९. वा इति गपुस्तके न । २०. जीवोपमर्दकात् ख । २१. इत्याह-अणारिय ख ।