SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४०६ ४०६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे [सू०१३६] आवंती केआवंती लोयंसि समणा य माहणा य पुढो विवादं वदंति से दिटुं च णे, सुयं च णे, मयं च णे, विण्णायं च णे, उड़े अहं तिरियं दिसासु सव्वतो सुपडिलेहितं च णे-'सव्वे पाणा सव्वे जीवा सव्वे भूता 5 सव्वे सत्ता हंतव्वा, अज्जावेतव्वा, परिघेतव्वा, परितावेतव्वा, उद्दवेतव्वा । एत्थ वि जाणह णत्थेत्थ दोसो' अणारियवयणमेयं । आवंतीत्यादि । आवंतीति यावन्तः । केआवंतीति केचन । लोके मनुष्यलोके । श्रमणा: पाषण्डिकाः । ब्राह्मणाः द्विजातयः । पृथक् पृथग् 10 विरुद्धो वादो विवादस्तं वदन्ति । एतदुक्तं भवति–यावन्तः केचन परलोकं ज्ञीप्सवस्ते आत्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्तो विवदन्ते, तथाहिभागवता ब्रुवते–'पञ्चविंशतितत्त्वपरिज्ञानाद् मोक्षः, सर्वव्याप्यात्मा निष्क्रियो निर्गुणश्चैतन्यलक्षणः, निर्विशेषं सामान्यं तत्त्वम्' इति । वैशेषिकास्तु भाषन्ते "द्रव्यादिषट्पदार्थपरिज्ञानाद् मोक्षः, समवायिज्ञानगुणेनेच्छाप्रयत्नद्वेषादिभिश्च 15 गुणैर्गणवानात्मा, परस्परनिरपेक्षं सामान्य-विशेषात्मकं तत्त्वम्" इति । शाक्यास्तु वदन्ति यथा-"परलोकपथानुयाय्यात्मैव न विद्यते, निःसामान्यं वस्तु क्षणिकं च" इति । मीमांसकास्तु मोक्ष-सर्वज्ञाभावेन व्यवस्थिता इति । तथा केषाञ्चित् पृथिव्यादय एकेन्द्रिया जीवा न भवन्ति । अपरे वनस्पतीनामप्य चेतनतामाहुः, तथा द्वीन्द्रियादीनामपि कृम्यादीनां न जन्तुस्वभावं प्रतिपद्यन्ते, 20 तद्भावे वा न तद्वधे बन्धोऽल्पबन्धता वेति, तथा हिंसायामपि भिन्नवाक्यता, तदुक्तम् ___ १. केआवंति त्ति केचन च । २. लोके इति खपुस्तके न । ३. परलोकज्ञीप्सव० ङ। ४. दर्शनमपवदन्ते तथाहि ख । ५. सामान्यतत्त्वम् ख । ६. समवायज्ञान० क । ७. परलोकानुया० क-खपुस्तके ऋते । ८. न्याय्यात्मा न विद्यते ख च । ९. सद्भावे वा . तद्वधेऽल्पबन्धता चेति ख, सद्भावे वा न च । १०. चेति क ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy