________________
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । द्वितीय उद्देशकः ४०५ वैशेषिका अपि सावधयोगारम्भिणः, तथाहि ते भाषन्ते
अभिषेचनोपवास-ब्रह्मचर्य-गुरुकुलवास-वानप्रस्थ-यज्ञ-दान-मोक्षण-दिग्नक्षत्र-मन्त्र-काल-नियमाः । [ ] इत्यादि ।
अन्येऽपि सावधयोगानुष्ठायिनोऽनया दिशा वाच्याः । स्यात्-किं सर्वोऽपीच्छाप्रणीतादिर्यावत् तत्र तंत्र कृतसंस्तवोऽधऔपपातिकान् स्पर्शान् 5 प्रतिसंवेदयति आहोस्वित् कश्चिदेव तद्योग्यकर्मकार्येवानुभवति ? न सर्व इति दर्शयति
चिट्टमित्यादि । चिट्ठे भृशमत्यर्थं क्रूरैः वध-बन्धादिभिः कर्मभिः क्रियाभिः चिट्टमिति भृशमत्यर्थमेव विरूपां दशां वैतरणीतरणा-ऽसि-पत्रवनपत्रपाताभिघात-शाल्मलीवृक्षालिङ्गनादिजनितामनुभवं स्तमतमादिस्थानेषु 10 परिवितिष्ठति । यस्तु नात्यर्थं हिंसादिभिः कर्मभिर्वर्तते सोऽत्यन्तवेदनानिचितेष्वपि नरकेषु नोत्पद्यते । ।
स्यात्-क एवं वदन्ति ? इत्याह-एगे वयंतीत्यादि । एके चतुर्दशपूर्वविदादयः वदन्ति ब्रुवते, अथवापि ज्ञानी वदति ज्ञानं सकलपदार्थाविर्भावकम् अस्यास्तीति ज्ञानी, स चैतद् ब्रवीति । यद् दिव्यज्ञानी केवली 15 भाषते श्रुतकेवलिनोऽपि तदेव भाषन्ते, यच्च श्रुतकेवलिनो भाषन्ते निरावरणज्ञानिनोऽपि तदेव वदन्तीत्येतद् गतप्रत्यागतसूत्रेण दर्शयति
__नाणी इत्यादि । ज्ञानिनः केवलिनो यद् वदन्ति अथवाऽपि एके श्रुतकेवलिनो यद् वदन्ति तद् यथार्थभाषित्वादेकमेव, एकेषां सर्वार्थप्रत्यक्षत्वाद् अपरेषां तदुपदेशप्रवृत्तेरिति, वक्ष्यमाणेऽप्येकवाक्यतेति । तदाह
20
१. ०चर्य-वानप्रस्थ० च, खप्रतौ पाठपतनमत्र । २. ०यज्ञादान० ग घ च । ३. ०मोक्षणादिनक्षत्र० क, मोक्षणा-दिग्-नक्षत्र० ग । ४. ०कालविधिज्ञाः इत्यादि ख । ५. ०ऽनयैव दिशा ख । ६. तत्र तत्कृतसंस्तवो० च । ७. ०बन्धनादिभि: ग । ८. ०मेवाधिरूपां दशां ख । ९. ०वनपत्राभिघात० ख । १०. ०स्तमस्तमादि० ग घ । ११. परितिष्ठति ख ग । १२. वदति क-चप्रती विना । १३. इत्यत आह च । १४. चैवं ब्रवीति ग । १५. श्रुतकेवली भाषते ज्ञानिनोऽपि तदेव ख । १६. ०केवलिनोऽपि भाषन्ते च ।