SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४०४ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे एत्थ मोहे पुणो पुणो, अत्र अस्मिन् इच्छाप्रणीतादिके हृषीकानुकूले मोहे, कर्मरूपे वा मोहे निमग्नाः पुनः पुनस्तत् कुर्वन्ति येन तदप्रच्युतिः स्यात् । तदप्रच्युतौ च किं स्यात् ? इत्याह [सू०१३५ ] इहमेगेसिं तत्थ तत्थ संथवो भवति । 5 अहोववातिए फासे पडिसंवेदयंति । चिट्टं कूरेहिं कम्मेहिं चिट्टं परिविचिट्ठति । अचिट्टं कूरेहिं कम्मेहिं णो चिट्टं परिविचिट्ठति । 10 एगे वदंति अदुवा वि णाणी, णाणी वदंति अदुवा वि एगे । इहमेगेसिमित्यादि । इह अस्मिश्चतुर्दशरज्ज्वात्मके लोके एकेषां मिथ्यात्व-ऽविरति-प्रमाद - कषायवतां तत्र तत्र नेरक-तिर्यगत्यादिषु यातनास्थानकेषु संस्तवः परिचयो भूयो भूयो गमनाद् भवति । ततः किम् ? इत्याह-अहोववाइए इत्यादि । त एवमिच्छया प्रणीतत्वाद् इन्द्रियवशगा-स्तद्वशत्वात् तदनुकूलमाचरन्तो नरकादियातनास्थानजातसंस्तवाः 15 तीर्थिका अप्युद्देशिकादि निर्दोषमाचक्षाणाः अधऔपपातिकान् नरकादिभवान् स्पर्शान् 'दु:खानुभवान् प्रतिसंवेदयन्ति अनुभवन्ति, तथाहि - लोकायतिका ब्रुवते पिब खाद चे चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ [ ] "माहे इति शब्दादिक" जे०वि०प० । २. मोहे इति खपुस्तकं नास्ति । ३. कुर्वते च । ४. इहमेगेसिं इत्यादि ख च । ५. नारक० ख । ६. ०ग्गत्यादियातना० ग । ७. ०स्थानेषु ख च । ८. अहोववाइय इत्यादि क ग अहोववाइएत्यादि व च । ९. ० स्तद्वशित्वात् कप्रतिमृते । १०. अप्यौद्देशिकादि च । ११. दुष्टान् भावात् (न्) प्रति० क शोभने ! यदतीतं ग चूर्णो च । १३. कडेवरम् च । १२. च साधु
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy