________________
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । द्वितीय उद्देशकः ४०३ वदत यदीह कश्चिदनुसन्ततसुखपरिभोगलालितः, प्रयतनशतपरोऽपि विगतव्यथमायुरवाप्तवान् नरः । न खलु नर: सुरौघसिद्धासुरकिन्नरनायकोऽपि यः, सोऽपि कृतान्तदन्तकुलिशाक्रमणक्रशितो न नश्यति ॥ [ ] तथोपायोऽपि मृत्युमुखप्रतिषेधस्य न कश्चिदस्तीति, उक्तं चनश्यति नौति याति वितनोति करोति रसायनक्रियाम्, चरति गुरुव्रतानि विवराण्यपि विशति विशेषकातरः । तपति तपांसि खादति मितानि करोति च मन्त्रसाधनम् , तदपि कृतान्तदन्तयन्त्रक्रक्रचक्रमणैर्विदार्यते ॥ [ ]
ये पुनर्विषयकषायाभिष्वङ्गात् प्रमत्ता धर्मं नावबुध्यन्ते ते किम्भूता 10 भवन्ति ? इत्याह-इच्छा इत्यादि । इन्द्रिय-मनोविषयानुकूला प्रवृत्तिरिहेच्छा । तया विषयाभिमुखमभिकर्मबन्धं संसाराभिमुखं वा प्रकर्षेण नीता इच्छाप्रणीताः । ये चैवम्भूतास्ते वंकानिकेताः वङ्कस्य असंयमस्य आ मर्यादया संयमावधिभूतया निकेतभूताः आश्रया वङ्कानिकेताः । वङ्को वा निकेतो येषां ते वकनिकेताः, पूर्वपदस्य दीर्घत्वम् । ये चैवम्भूतास्ते कालगृहीताः कालेन मृत्युना गृहीता: 15 कालगृहीताः, पौन:पुण्यमरणभाज इत्यर्थः । धर्मचरणाय वा गृहीतः अभिसन्धितः कालो यैस्तै कालगृहीताः, आहिताग्निदर्शनाद् आर्षत्वाद्वा निष्ठान्तस्य परनिपातः, तथाहि-पाश्चात्त्ये वयसि परुत्परारि वा अपत्यपरिणयनोत्तरकालं वा धर्म करिष्याम इत्येवं गृहीतकालाः । ये चैवम्भूतास्ते निचये निविष्टाः निचये कर्मनिचये तदुपादाने वा सावद्यारम्भनिचये निविष्टाः अध्युपपन्नाः ।।
ये चेच्छाप्रणीता वानिकेताः कालगृहीता निचये निविष्टास्ते तद्धर्माण: किमपरं कुर्वन्ति ? इति दर्शयितुमाह-पुढो पुढो इत्यादि । पृथक् पृथक् एकेन्द्रिय-द्वीन्द्रियादिकां जातिमनेकशः प्रकल्पयन्ति प्रकुर्वन्ति । पाठान्तरं वा
१. प्रयत्नशत० ग च । २. ०मनोनुकूला ख । ३. ये एवम्भूता० ख । ४. आ इति क-ग-चप्रतिषु नास्ति । ५. निकेता: आश्रया क । ६. वङ्कानिकेताः ख घ च । ७. ०द्वीन्द्रियत्रीन्द्रियादिकां ख । ८. ०न्ति । पठ्यते च-एत्थ ख च ।