________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
मणुस्सभवत्थाणं आरंभविणणं दुक्खुव्वेयसुहेसगाणं धम्म-सवणगवेसयाणं सुस्सूसमाणाणं पडिपुच्छमाणाणं विन्नाणपत्ताणं ।
एतच्च प्रायो गतार्थमेव, नवरम् आरम्भविनयिनाम् इति आरम्भविनयः आरम्भाभावः सविद्यते येषामिति मत्वर्थीयः, तेषामिति 1
5
४०२
यथा च ज्ञानी धर्ममाचष्टे तथा दर्शयति- अट्टा वि इत्यादि । विज्ञानप्राप्ता धर्मं कथ्यमानं कुतश्चिन्निमित्ताद् आर्ता अपि सन्तः चिलातपुत्रादय इव, अथवा प्रमत्ताः विषयाभिष्वङ्गादिना शालिभद्रादय इव, तथाविधकर्मक्षयोपशमापत्तेर्यथा प्रतिपद्यन्ते तथाऽऽचष्टे । यदि वा आर्ताः दुःखिनः, प्रमत्ताः सुखिनः, तेऽपि प्रतिपद्यन्ते धर्मं किं पुनरपरे ? | अथवा आर्ताः राग- - द्वेषोदयेन, प्रमत्ताः विषयैः, 10 ते च तीर्थिका गृहस्था वा संसारकान्तारं विशन्तः कथं भवन्तो विज्ञातज्ञेयानां 'कॅरुणास्पदा न राग-द्वेष - विषयाभिलाषोन्मूलनाय न प्रभवन्ति । एतच्चान्यथा मा मंस्था 'इति दर्शयितुमाह
'अहासच्चमित्यादि । इदं यद् मया कथितं कथ्यमानं च तद् यथासत्यं र्यंथातथ्यमित्यर्थः । इत्येतदहं ब्रवीमि यथा - दुर्लभमवाप्य सम्यक्त्वं चारित्र15 परिणामं वा प्रमादो न कार्यः । स्यात् किमालम्ब्य प्रमादो न कार्यः ? तदाहनाणागमो इत्यादि । न ह्यनागमो मृत्योर्मुखस्य कस्यचिदपि संसारोदरवर्तिनोऽस्तीति, उक्तं च
१. मणुसभवत्थाणं घ ङ । २. ०णं आरंभपत्थाणं आरंभविणईणं ग । ३. आरंभट्ठियाणं चूर्णो । ४. दुक्खुवेय० क, दुक्खुच्चेय० ख, दुक्खखय० ग च । ५. धम्मस्वण ० ग च । ६. ०गवेसणयाणं क । ७. ०णं निक्खित्तसत्थाणं सुस्सूस० चूर्णो । ८. विज्ञानं प्राप्ता च । ९. चिलातीपुत्रादय ग चिलातिपुत्रादय घ ङ । १०. धर्मं इति क
प्रत्योर्नास्ति । ११. भवन्तां विज्ञात० क ख विना । १२. करुणास्पदानां ग च । १३. इत्यादि दर्शयितु० घ ङ । १४. अहासच्चं इत्यादि ख च । १५. इदं मया यत् कथितं ख । १६. याथातथ्य० घ । १७. नाणागमे ख च ।