________________
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । द्वितीय उद्देशकः ४०१ इति । जति-कुल-बल-रूप-तपः- श्रुत-लाभैश्वर्यमदाभावाद् उच्चैर्गोत्रम्, जात्यादिमदात् परपरिवादाच्च नीचैर्गोत्रम् । दान-लाभ-भोगोपभोग-वीर्यान्तरायविधानाद् आन्तरायिकं कर्म बध्यते । एते ह्याश्रवाः । साम्प्रतं परिश्रवाः प्रतिपाद्यन्ते-अनशनादि सबाह्याभ्यन्तरं तप इत्यादि । एवमाश्रवका निर्जरकाः सभेदा जन्तवो वाच्याः, सर्वेऽपि च जीवादयः पदार्था मोक्षावसाना वाच्याः । 5 एतानि च पदानि सम्बुध्यमानैस्तीर्थकर-गणधरैर्लोकमभिसमेत्य पृथक् पृथक् प्रवेदितम् ।
अन्योऽपि तदाज्ञानुसारी चतुर्दशपूर्वविदादिः सत्त्वहिताय परेभ्य आवेदयतीत्येतद्दर्शयितुमाह
आघा इत्यादि । ज्ञानं सकलपदार्थाविर्भावकं विद्यते यस्यासौ ज्ञानी । स 10 आख्याति आचष्टे । इह इति प्रवचने । केषां ? मानवानाम्, सर्वसंवरचारित्रार्हत्वात् तेषाम् । अथवोपलक्षणं चैतद्देवादीनाम् । तत्रापि केवल्यादिव्युदासाय विशेषणमाह
संसार इत्यादि । संसारं चतुर्गतिलक्षणं प्रतिपन्नाः संसारप्रतिपन्नाः । तत्रापि ये धर्म भोत्स्यन्ते ग्रहीष्यन्ते च मुनिसुव्रतस्वामिघोटकदृष्टान्तेन 15 तेषामेवाख्यातीत्येतद्दर्शयति-सम्बुध्यमानानां यथोपदिष्टं धर्मं सम्यगवबुध्यमानानाम् । छद्मस्थेन त्वज्ञातबुध्यमानेतरविशेषेण यादृग्भूतानां कथयितव्यं तान् सूत्रेणैव दर्शयति-विज्ञानप्राप्तानां हिता-ऽहितप्राप्ति-परिहाराध्यवसायो विज्ञानम्, तत् प्राप्ता विज्ञानप्राप्ताः, समस्तपर्याप्तिभिः पर्याप्ताः संज्ञिन इत्यर्थः । नागार्जुनीयास्तु पठन्ति
आघाइ धम्मं खलु से जीवाणं, तंजहा-संसारपडिवन्नाणं
20
१. ० कुल-रूप० ग घ । २. ह्यास्रवाः ग घ ङ । ३. परिस्रवाः घ । ४. ०माश्रवनिर्जरकाः ख घ ङ च, ०मास्रवकनिर्जरकाः ग । ५. पृथक् प्रवेदितम् ग छ। ६. सर्वहिताय ख । ७. अघा इत्यादि ख ग, आघाइ इत्यादि च । ८. केवलादि० ख । ९. ०व्यं तत् सूत्रे० घ ङ। १०. अघाइ ख । ११. स ख । १२. तं जहा इति पाठ: चूर्णी न ।