________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
ऐते पए इत्यादि । एतानि अनन्तरोक्तानि पद्यते गम्यते येभ्योऽर्थस्तानि पदानि तद्यथा-ये आश्रवा इत्यादीनि । पैरस्य चार्थावगत्यर्थं शब्दप्रयोगाद् एतत्पदवाच्यानॅर्थांश्च सम्यग् अविपर्यासेन बुध्यमानः । तथा लोकं जन्तुगण माश्रवद्वारायातेन कर्मणा बध्यमानं तपश्चरणादिना च मुच्यमानम् आज्ञया तीर्थकरप्रणीतागमानुसारेण अभिसमेत्य आभिमुख्येन सम्यक् परिच्छिद्य । चशब्दः भिन्नक्रमः । पृथक् प्रवेदितं चाभिसमेत्य पृथगाश्रवोपादानं निर्जरोपादानं चेति । एतच्च ज्ञात्वा को नाम धर्मचरणं प्रति नोद्यच्छेदिति ? कथं प्रवेदितम् ? इति चेत् तदुच्यते
20
४००
ジ
आश्रवस्तावत्-ज्ञानप्रत्यनीकतया ज्ञाननिह्नवेन ज्ञानान्तरायेण ज्ञानप्रद्वेषेण 1) ज्ञानात्याशातनया ज्ञानविसंवादेन ज्ञानावरणीयं कर्म बध्यते । एवं दर्शनप्रत्यनीकतया यावद् दर्शनविसंवादेन दर्शनावरणीयं कर्म बध्यते । तथा प्राणिनामनुकम्पनतया भूतानुकम्पनतया जीवानुकम्पनतया सत्त्वानु कॅम्पनतया बहूनां प्राणिनामदुःखोत्पादनतया अशोचनतया अजूरणतया अँपीडनतया अपरितापनतया सातावेदनीयं कर्म बध्यते एतद्विपर्ययाच्च असातावेदनीयमिति । 15 तथा अनन्तानुबन्ध्युत्कटतया तीव्रदर्शनमोहनीयतया प्रबलचारित्रमोहनीयसद्भावाद् मोहनीयं कर्म बध्यते । महारम्भतया महापरिग्रहतया पञ्चेन्द्रियवधात् कुणपाहारेण नरकायुष्कं बध्यते, मायावितया अनृतवादेन कूटतुला- कूटमानव्यवहारात् तिर्यगायुर्बध्यते, प्रकृतिविनीततया सानुक्रोशतया अमात्सर्याद् मैनुष्यायुष्कम्, सरागसंयमेन देशविरत्या बालतपसा अकामनिर्जरया देवायुष्कमिति । कायर्जुतया भावर्जुतया भाषर्जुतया अविसंवादनयोगेन शुभनाम बध्यते, विपर्ययाच्च विपर्यय
,
१. एए इत्यादि ख । २. परस्यार्थावगत्यर्थं क । ३. ०नर्थान् सम्यग् क । ४. ० मास्त्रव० ग घ । ५. ०गास्त्रवो० ग घ ङ । ६. चेद् उच्यते ख । ७. आस्रव० ग घ ङ । ८. ज्ञान्याशातनया ख । ९. ०मनुकम्पनया क च । १०. ०नुकम्पनया च । ११. ०या सत्त्वानुकम्पनतया जीवानुकम्पनत्वेन बहूनां ख । १२. ० कम्पनत्वेन बहूनां ग घ ङ च । १३. अपिण्डनतया ख । १४. कुणपाहाराद् ख कुणिमाहारेण ग घ कुणपहारेण ङ । १५. अमात्सर्यतया मानुष्यायुष्कम् ख । १६. मानुषायुष्कम् च । १७. अविसंवादनायोगेन ख ।