________________
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । द्वितीय उद्देशकः ३९९ कारणमिति च भावयतः सञ्जातसंवेगस्येतरजनसंसारकारणमपि मोक्षायेति भावार्थः । पुनरेतदेव गतप्रत्यागतसूत्रं सप्रतिषेधमाह
जे अणासवा इत्यादि । प्रसज्यप्रतिषेधस्य क्रियाप्रतिषेधपर्यवसानतया परिश्रवा इत्यनेन सह सम्बन्धाभावात् पर्युदासोऽयम् । आश्रवेभ्योऽन्ये अनाश्रवाः व्रतविशेषाः तेऽपि कर्मोदयादशुभाध्यवसायिनोऽपरिश्रवाः कर्मणः, कोकणार्य- 5 प्रभृतीनामिवेति । तथा अपरिश्रवाः पापोपादानकारणानि केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणाः कणवीरलताभ्रामकक्षुल्लकस्येव अनाश्रवाः कर्मबन्धनानि न भवन्ति ।
यदि वाऽऽ श्रवन्तीत्याश्रवाः पचाद्यच् । एवं परिश्रवन्तीति परिश्रवाः। अत्र चतुर्भङ्गिका-तत्र मिथ्यात्वा-ऽविरति-प्रमाद-कषाय-योगैर्य एव कर्मणां 10 आश्रवाः बन्धकाः त एवापरेषां परिश्रवाः निर्जरकाः, एते च प्रथमभङ्गपति ताः सर्वेऽपि संसारिणश्चतुर्गतिकाः, सर्वेषां प्रतिक्षणमुभयसद्भावात् । तथा ये आश्रवास्तेऽपरिश्रवा इति शून्योऽयं द्वितीयभङ्गकः, बन्धस्य शाटाविनाभावित्वात् । एवं येऽनाश्रवास्ते परिश्रवाः, एते चायोगिकेवलिनस्तृतीयभङ्गपतिताः । चतुर्थभङ्गपतितास्तु सिद्धाः, तेषामनाश्रवत्वादपरिश्रवत्वाच्चेति । अत्र चाद्यन्तभङ्गको 15 सूत्रोपात्तौ, तदुपादाने च मध्योपादानस्यावश्यम्भावित्वाद् मध्यभङ्गकद्वयग्रहणं द्रष्टव्यमिति । यद्येवं ततः किम् ? इत्याह
१. ०संवेगस्य तस्येतर० ख । २. पुनरेव गत० ख । ३. प्रसह्य प्रतिषे० क ग च। ४. परिस्रवा ग घ ङ । ५. आस्रवेभ्यो० ग घ ङ। ६. अनास्रवाः ग घ ङ । ७. कर्मोदयाशुभा० क । ८. ०ऽपरिस्रवाः ग घ ङ । ९. “कोङ्कणार्य इति यथा वृद्धः प्रव्रजितश्चिन्तयति वर्षाकालसमये दुती'' जै०वि०प० । १०. अपरिस्रवाः ग घ ङ । ११. प्रवचनोक्तप्रकरादिना घ ङ । १२. करवीर० ख ग, १३. अनास्त्रवाः घ ङ । १४. कर्मबन्धाय न भवन्ति ख-चपस्तके विना । १५. वाऽऽस्रवन्तीत्यास्त्रवाः ग घ ङ । १६. परिस्रवन्तीति परिस्रवाः ग घ ङ । १७. आस्रवाः घ ङ। १८. "अपरेषाम् इति पूर्वबद्धकर्मणाम्' जै०वि०प० । १९. परिस्रवाः ग घ ङ। २०. ०ता: संसारिण० ख । २१. आस्रवास्तेऽपरिस्रवा ग घ टुः । २२. येऽनास्रवास्ते परिस्रवाः ग घ ङ। २३. मनास्त्रवत्वादपरिस्रवत्वाच्चेति ग घ ङ ।