________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
तद्ग्रहणाच्च संवरस्तत्कार्यभूतश्च मोक्षः सूचितो भवतीति । अत आश्रव-निर्जर संसार-मोक्षकारणभूते सम्यक्त्वविचारायाते दर्शयितुमाह-जे आसवा इत्यादि । ये इति सामान्यनिर्देशः । आश्रवत्यष्टप्रकारं कर्म यैरारम्भैस्ते आश्रवाः । परि: समन्तात् श्रेवति गलति यैरनुष्ठानविशेषैस्ते परिश्रवाः। य एवाश्रवाः 5 कर्मबन्धस्थानानि त एव परिश्रवा: कर्मनिर्जरा-स्पदानि । इदमुक्तं भवति-यानि इतरंजनाचरितानि स्रुगङ्गनादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वाद् आश्रवाः, पुनस्तान्येव तत्त्वविदां विषयसुखपराङ्मुखानां निःसारतया संसारसरणिदेश्यानीति कृत्वा वैराग्यजनकानि, अतः परिश्रवाः निर्जरास्थानानि । सर्ववस्तूनामनैकान्तिकतां दर्शयितुं तदेव विपर्ययेणाह—
३९८
10
जे पॅरिसव इत्यादि । य एव पैरिश्रवाः निर्जरास्थानानि अर्हत्साधु-तपश्चरण-दशविधचक्रवालसामाचार्यनुष्ठानादीनि तान्येव कर्मोदयावष्टब्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तसार्थवाहस्य जन्तोर्महाशातनावतः सातर्द्धिरसगारवप्रवणस्य आश्रवा भवन्ति पापोपादानकारणानि जायन्ते । इदमुक्तं भवतियावन्ति कर्मनिर्जरार्थं संयमस्थानानि तद्बन्धनायासंयमस्थानान्यपि तावन्त्येव, 15 उक्तं च
यथाप्रकारा यावन्तः, संसारावेशहेतवः ।
तावन्तस्तद्विपर्यासाद्, निर्वाणसुखहेतवः ॥ [
]
तथाहि - र
-द्वेषवासितान्त:करणस्य विषयसुखोन्मुखस्य दुष्टाशयत्वात् सर्वं संसाराय, पिचुमन्दरसवासितास्यस्य दुग्ध-शर्करादिकटुकत्वापत्तिवदिति, 20 सम्यग्दृष्टेस्तु विदितसंसारोदन्वतः न्यक्कृतविषयाभिलाषस्य सर्वमशुचि दुःख
-राग-1
१. आस्रव० घ ङ । २. आस्रवत्य० ग घ ङ । ३. आस्रवाः ग घ ङ । ४. परि च । ५. स्त्रवति घ ङ । ६ परिस्रवाः । य एवास्त्रवाः ग घ ङ । ७. परिस्रवाः ग घ ङ । ८. ० जनचरितानि ख । ९. आस्रवाः ग घ ङ । १०. परिस्त्रस्रवाः ग घ ङ । ११. दर्शयितुं विपर्य० ख दर्शयितुमेतदेव विपर्य० ग घ ङ च । १२. परिसवा च । १३. ०वा ते इत्यादि ख । १४. परिस्रवाः ग घ ङ । १५. कर्मोदयादवष्टब्ध० ख ग च । १६. ०र्महाशातनातः ख ग च । १७. आस्रवा घ ङ । १८. विज्ञातसंसारोदन्वतस्त्यक्तविषया० च ।