________________
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । द्वितीय उद्देशकः ३९७ [ सू०१३४ ] जे आसवा ते परिस्सवा, जे परिस्सवा ते आसवा ।
जे अणासवा ते अपरिस्सवा, जे अपरिस्सवा ते अणासवा ।
एते य पए संबुज्झमाणे लोगं च आणाए 5 अभिसमेच्चा पुढो पवेदितं आघाति णाणी इह माणवाणं संसारपडिवण्णाणं संबुज्झमाणाणं विण्णाणपत्ताणं ।
अट्टा वि संता अदुवा पमत्ता । अहासच्चमिणं ति बेमि । णाऽणागमो मच्चुमुहस्स अस्थि ।
इच्छापणीता वंकाणिके या कालग्गहीता णिचये णिविट्ठा पुढो पुढो जाइं पकप्पेंति ।
उक्तः प्रथमो देशकः । साम्प्रतं द्वितीयव्याख्या प्रतन्यते । अस्य चायमभिसम्बन्धः-ईह अनन्तरोद्देशके सम्यग्वादः प्रतिपादितः । स च 15 प्रत्यनीकमिथ्यावादव्युदासेनात्मलाभं लभते । व्युदासश्च न परिज्ञानमन्तरेण, परिज्ञानं च न विचारमृते, अतो मिथ्यावादभूततीर्थिकमतविचारणायेदमुपक्रम्यते । अनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमादिसूत्रम्-जे आसवा इत्यादि ।
यदि वेह सम्यक्त्वमधिकृतम्, तच्च सप्तपदार्थश्रद्धानात्मकम् । तत्र मुमुक्षुणाऽवगतशस्त्रपरिज्ञा-जीवा-ऽजीवपदार्थेन संसार-मोक्षकारणे निर्णतव्ये । 2) तत्र संसारकारणमा श्रवः, तद्ग्रहणाच्च बन्ध-ग्रहणम् । मोक्षकारणं तु निर्जरा
१. अधुना च, खप्रतौ पाठभङ्गः । २. इह इति क घ ङग्रतिषु नास्ति । ३. प्रत्यनीकान्यथावाद० क । ४. परिज्ञानमृते, परिज्ञानं च न विचारमन्तरेण, अतो ख च । ५. विवारणायेद० ग । ६. मात्रवः घ ङ। ७. ०णं च निर्जरा तत्कारणं च संवर० ग ।