________________
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । द्वितीय उद्देशकः ४०९ भूता सव्वे जीवा सव्वे सत्ता ण हंतव्वा, ण अज्जावेतव्वा, ण परिघेत्तव्वा, ण परियावेयव्वा, ण उद्दवेतव्वा । एत्थ वि जाणह णत्थेत्थ दोसो ।' आरियवयणमेयं ।
वयमित्यादि । पुन:शब्दः पूर्वस्माद्विशेषमाह । वयं पुनर्यथा धर्मविरुद्धवादो न भवति तथा प्रज्ञापयाम इति । तान्येव पदानि सप्रतिषेधानि तु 5 हन्तव्यादीनि यावद् न केवलमन्यत्र अस्मदीये वचने नास्ति दोषः, अत्रापि अधिकारे जानीथ यूयं यथा-अत्र हननादिप्रतिषेधविधौ नास्ति दोषः पापानुबन्धः, सावधारणत्वाद् वाक्यस्य नास्त्येव दोषः, प्राण्युपघातप्रतिषेधाच्चार्यवचनमेतत् । एवमुक्ते सति ते पाषण्डिका ऊचुः-भवदीयमार्यवचनमस्मदीयं त्वनार्यम् इत्येतन्निरन्तराः सुहृदः प्रत्येष्यन्ति, युक्तिविकलत्वात् । 10 तदत्राचार्यो यथा परमतस्यानार्यता स्यात् तथा दिदर्शयिषुः स्ववाग्यन्त्रिता वादिनो • न विचलयिष्यन्तीति कृत्वा प्रत्येकमतप्रच्छनार्थमाह
[सू०१३९ ] पुव्वं णिकाय समयं पत्तेयं पुच्छिस्सामोहं भो पावादुया ! किं भे सायं दुक्खं उताहु असायं ? समिता पडिवण्णे या वि एवं बूया- सव्वेसिं पाणाणं 15 सव्वेसिं भूताणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं असायं अपरिणिव्वाणं महब्भयं दुक्खं ति त्ति बेमि ।
॥ सम्मत्तस्स बीओ उद्देसओ सम्पत्तो ॥ ___पुव्वमित्यादि । पूर्वम् आदावेव समयम् आगमं यद् यदीयागमेऽभिहितं तत् निकाच्य व्यवस्थाप्य पुनस्तद्विरूपापादनेन परमतानार्यता प्रतिपाद्येति, 20 अतस्तदेव परमतं प्रश्नयति, यदि वा पूर्व प्राश्निकान् निकाच्य ततः पाषण्डिकान् प्रश्नयितुमाह
१. वयं इत्यादि ख । २. चलिष्यन्तीति च । ३. ०प्रच्छनायाह पुव्वं इत्यादि ख । ४. प्रतिपादिता । अत० ख ।