________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
पंत्तेयमित्यादि । एकमेकं प्रति प्रत्येकम् भोः प्रावादुकाः ! भवतः प्रश्नयिष्यामि - किं भे युष्माकं सातं मनआह्लादकारि दुःखम् ? उत असातं मनःप्रतिकूलम् ? एवं पृष्टाः सन्तो यदि सातमित्येवं ब्रूयुः ततः प्रत्यक्षागमलोकबाधा स्यात् । अथ असातमित्येवं ब्रूयुः ततः सैमियामिति 5 सम्यक्प्रतिपन्नास्तान् प्रावादुकान् स्ववाग्यन्त्रितानप्येवं ब्रूयात् अपिः सम्भावने, सम्भाव्यते एतद्भणनं यथा- न केवलं भवतां दुःखमसातम् सर्वेषामपि प्राणिनां दुःखमसातं मनसोऽनभिप्रेतम् अपरिनिर्वाणम् अनिर्वृतिरूपं महद्भयं दुःखमिति । एतत् परिगणय्य सर्वेऽपि प्राणिनो न हन्तव्या इत्यादि वाच्यम् । तद्धनने च दोषः, यस्त्वदोषमाह तदनार्यवचनम् । इतिः अधिकारपरिसमाप्तौ । 10 ब्रवीमि इति पूर्ववत् ।
४१०
15
तदेवं प्रावादुकानां स्ववाग्नियन्त्रणयाऽनार्यता प्रतिपादिता । अत्रैव राहगुप्तमन्त्रिणा विदितागमसद्भावेन माध्यस्थ्यमवलम्बमानेन तीर्थिकपरीक्षाद्वारेण यथा निराकरणं चक्रे तथा नियुक्तिकारो गाथाभिराचष्टे—
खुड्डग पायसमासं धम्मकहं पि य अजंपमाणेण । छन्नेण अन्नलिंगी परिच्छिया राहगुत्तेणं ॥२२९॥
खुड्डग पायसमासमित्यादि । अनया गाथया सङ्क्षेपतः सर्व कथानकमावेदितम् । क्षुल्लकस्य पादसमासः गाथापादसङ्क्षेपः तमर्जेल्पता धर्मकथां च छन्नेन अप्रकटेन अन्यलिङ्गिनः प्रावादुकाः परीक्षिता: निरूपिताः राहगुप्तेन राहगुप्तनाम्ना मन्त्रिणेति गाथासमासार्थः ॥ २२९॥ भावार्थस्तु 20 कथनाकादवसेयस्तच्चेदम्
चम्पायां नगर्यां सिंहसेनस्य राज्ञो राहगुप्तो नाम महामन्त्री । स
१. पत्तेयं इत्यादि ख । २. ०मित्येव ख । ३. समियां सम्य० ख, समिया सम्य० ग घ ङ च । ४. अपि क ग च । ५. सम्भाव्यमेतद्भवनं ख । ६. तद्वधेन च ग च । ७. अधिकारसमाप्तौ क- खप्रती विना । ८. खुद्दग ञ । ९. अजंपमाणेणं ञ । १०. ०समासं इत्यादि ख । ११. सर्वं इति खप्रतौ न । १२. ० जल्पनाच्छनेन ख । १३. " पाडलिपुत्तं यरं । जियसत्तू राया । राहगुत्तो अमच्चो सावओ" चूर्णौ । १४. नाम मन्त्री ख ।