Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 444
________________ प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । द्वितीय उद्देशकः ४०९ भूता सव्वे जीवा सव्वे सत्ता ण हंतव्वा, ण अज्जावेतव्वा, ण परिघेत्तव्वा, ण परियावेयव्वा, ण उद्दवेतव्वा । एत्थ वि जाणह णत्थेत्थ दोसो ।' आरियवयणमेयं । वयमित्यादि । पुन:शब्दः पूर्वस्माद्विशेषमाह । वयं पुनर्यथा धर्मविरुद्धवादो न भवति तथा प्रज्ञापयाम इति । तान्येव पदानि सप्रतिषेधानि तु 5 हन्तव्यादीनि यावद् न केवलमन्यत्र अस्मदीये वचने नास्ति दोषः, अत्रापि अधिकारे जानीथ यूयं यथा-अत्र हननादिप्रतिषेधविधौ नास्ति दोषः पापानुबन्धः, सावधारणत्वाद् वाक्यस्य नास्त्येव दोषः, प्राण्युपघातप्रतिषेधाच्चार्यवचनमेतत् । एवमुक्ते सति ते पाषण्डिका ऊचुः-भवदीयमार्यवचनमस्मदीयं त्वनार्यम् इत्येतन्निरन्तराः सुहृदः प्रत्येष्यन्ति, युक्तिविकलत्वात् । 10 तदत्राचार्यो यथा परमतस्यानार्यता स्यात् तथा दिदर्शयिषुः स्ववाग्यन्त्रिता वादिनो • न विचलयिष्यन्तीति कृत्वा प्रत्येकमतप्रच्छनार्थमाह [सू०१३९ ] पुव्वं णिकाय समयं पत्तेयं पुच्छिस्सामोहं भो पावादुया ! किं भे सायं दुक्खं उताहु असायं ? समिता पडिवण्णे या वि एवं बूया- सव्वेसिं पाणाणं 15 सव्वेसिं भूताणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं असायं अपरिणिव्वाणं महब्भयं दुक्खं ति त्ति बेमि । ॥ सम्मत्तस्स बीओ उद्देसओ सम्पत्तो ॥ ___पुव्वमित्यादि । पूर्वम् आदावेव समयम् आगमं यद् यदीयागमेऽभिहितं तत् निकाच्य व्यवस्थाप्य पुनस्तद्विरूपापादनेन परमतानार्यता प्रतिपाद्येति, 20 अतस्तदेव परमतं प्रश्नयति, यदि वा पूर्व प्राश्निकान् निकाच्य ततः पाषण्डिकान् प्रश्नयितुमाह १. वयं इत्यादि ख । २. चलिष्यन्तीति च । ३. ०प्रच्छनायाह पुव्वं इत्यादि ख । ४. प्रतिपादिता । अत० ख ।

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472