Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 442
________________ ४०७ प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । द्वितीय उद्देशकः प्राणी प्राणिज्ञानम्, घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥ [ इत्येवमादिक औद्देशिकपरिभोगाभ्यनुज्ञादिकश्च विरुद्धो वादः स्वत एवाभ्यूह्यः । यदि वा ब्राह्मण-श्रमणा धर्मविरुद्धं वादं यद् वदन्ति तत् सूत्रेणैव दर्शयति से दिटुं च णे इत्यादि यावत् नत्थित्थ दोसो । से त्ति तच्छब्दार्थे । य- 5 दहं वक्ष्ये तत् दृष्टम् उपलब्धं दिव्यज्ञानेनास्माभिरस्माकं वा सम्बन्धिना तीर्थकृताऽऽगमप्रणायकेन । चशब्दः उत्तरापेक्षया समुच्चयार्थः । श्रुतं चाऽस्माभिर्गुर्वादेः सकाशात्, अस्मद्गुरुशिष्यैर्वा तदन्ते वासिभिः । मतम् अभिमतं युक्तियुक्तत्वाद् अस्माकमस्मात्तीर्थकराणां वा । विज्ञातं च तत्त्वभेदपर्यायैरस्माभिरस्मत्तीर्थकरेण वा स्वतः, न परोपदेशदानेन । एतच्चोर्धा-ऽधस्तिर्यक्षु 10 दशस्वपि दिक्षु सर्वतः सर्वैरपि प्रत्यक्षानुमानोपमानागमार्थापत्त्यादिभिः प्रकारैः सुष्ठ प्रत्युपेक्षितं च पर्यालोचितं च, मन:प्रणिधानादिना अस्माभिरस्मत्तीर्थकरेण वा । किं तत् ? इत्याह सर्वे प्राणाः सर्वे जीवाः सर्वे भूताः सर्वे सत्त्वा हन्तव्या आज्ञापयितव्या परिग्रहीतव्या परितापयितव्या अपद्रापयितव्याः । अत्रापि 15 धर्मचिन्तायामप्येवं जानीथ यथा नास्त्यत्र यागार्थं देवतोपयाचितकतया वा प्राणिहननादौ दोषः पापानुबन्ध इति । एवं यावन्तः केचन पॉषण्डिका औद्देशिकभोजिनो ब्राह्मणा वा धर्मविरुद्धं परलोकविरुद्धं वा वादं भाषन्ते । अयं च जीवोपमर्दकत्वात् पापानुबन्धी अनार्यप्रणीत ईति, आह च-अणारिय इत्यादि आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः, तद्विपर्यासाद् अनार्याः क्रूर- 20 १. प्राणा ग । २. प्राणज्ञानं ख । ३. "तद्गता घातगता'' जै०वि०प० । ४. ०भ्यनुज्ञानादिकश्च ख । ५. ब्राह्मणा: च । ६. वादं इति गप्रतौ न । ७. णेत्यादि क । ८. णत्थेत्थ क ग च । ९. दोसो इत्यादि । से त्ति तच्छब्दार्थः । ख, दोसो त्ति । से त्ति ग च। १०. ०वासिभिर्वा । च । ११. च इति खपुस्तके नास्ति, च भेदपर्यायै० घ । १२. ०त्तीर्थकराणां वा ख । १३. एतच्चोर्ध्वा० घ ङ। १४. सर्वैः प्रत्यक्षा० ख च । १५. ०तं मन:प्रणिधानेन अस्माभि० ग । १६. अपद्रावयितव्याः ख च । १७. “चिन्तायामपि इति न केवलना(मा)रम्भादौ' जै०वि०प० । १८. पाषण्डिशब्दका ख । १९. वा इति गपुस्तके न । २०. जीवोपमर्दकात् ख । २१. इत्याह-अणारिय ख ।

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472