Book Title: Acharang Sutram
Author(s): Amrutlal Bhojak, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust

View full book text
Previous | Next

Page 434
________________ प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । द्वितीय उद्देशकः ३९९ कारणमिति च भावयतः सञ्जातसंवेगस्येतरजनसंसारकारणमपि मोक्षायेति भावार्थः । पुनरेतदेव गतप्रत्यागतसूत्रं सप्रतिषेधमाह जे अणासवा इत्यादि । प्रसज्यप्रतिषेधस्य क्रियाप्रतिषेधपर्यवसानतया परिश्रवा इत्यनेन सह सम्बन्धाभावात् पर्युदासोऽयम् । आश्रवेभ्योऽन्ये अनाश्रवाः व्रतविशेषाः तेऽपि कर्मोदयादशुभाध्यवसायिनोऽपरिश्रवाः कर्मणः, कोकणार्य- 5 प्रभृतीनामिवेति । तथा अपरिश्रवाः पापोपादानकारणानि केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणाः कणवीरलताभ्रामकक्षुल्लकस्येव अनाश्रवाः कर्मबन्धनानि न भवन्ति । यदि वाऽऽ श्रवन्तीत्याश्रवाः पचाद्यच् । एवं परिश्रवन्तीति परिश्रवाः। अत्र चतुर्भङ्गिका-तत्र मिथ्यात्वा-ऽविरति-प्रमाद-कषाय-योगैर्य एव कर्मणां 10 आश्रवाः बन्धकाः त एवापरेषां परिश्रवाः निर्जरकाः, एते च प्रथमभङ्गपति ताः सर्वेऽपि संसारिणश्चतुर्गतिकाः, सर्वेषां प्रतिक्षणमुभयसद्भावात् । तथा ये आश्रवास्तेऽपरिश्रवा इति शून्योऽयं द्वितीयभङ्गकः, बन्धस्य शाटाविनाभावित्वात् । एवं येऽनाश्रवास्ते परिश्रवाः, एते चायोगिकेवलिनस्तृतीयभङ्गपतिताः । चतुर्थभङ्गपतितास्तु सिद्धाः, तेषामनाश्रवत्वादपरिश्रवत्वाच्चेति । अत्र चाद्यन्तभङ्गको 15 सूत्रोपात्तौ, तदुपादाने च मध्योपादानस्यावश्यम्भावित्वाद् मध्यभङ्गकद्वयग्रहणं द्रष्टव्यमिति । यद्येवं ततः किम् ? इत्याह १. ०संवेगस्य तस्येतर० ख । २. पुनरेव गत० ख । ३. प्रसह्य प्रतिषे० क ग च। ४. परिस्रवा ग घ ङ । ५. आस्रवेभ्यो० ग घ ङ। ६. अनास्रवाः ग घ ङ । ७. कर्मोदयाशुभा० क । ८. ०ऽपरिस्रवाः ग घ ङ । ९. “कोङ्कणार्य इति यथा वृद्धः प्रव्रजितश्चिन्तयति वर्षाकालसमये दुती'' जै०वि०प० । १०. अपरिस्रवाः ग घ ङ । ११. प्रवचनोक्तप्रकरादिना घ ङ । १२. करवीर० ख ग, १३. अनास्त्रवाः घ ङ । १४. कर्मबन्धाय न भवन्ति ख-चपस्तके विना । १५. वाऽऽस्रवन्तीत्यास्त्रवाः ग घ ङ । १६. परिस्रवन्तीति परिस्रवाः ग घ ङ । १७. आस्रवाः घ ङ। १८. "अपरेषाम् इति पूर्वबद्धकर्मणाम्' जै०वि०प० । १९. परिस्रवाः ग घ ङ। २०. ०ता: संसारिण० ख । २१. आस्रवास्तेऽपरिस्रवा ग घ टुः । २२. येऽनास्रवास्ते परिस्रवाः ग घ ङ। २३. मनास्त्रवत्वादपरिस्रवत्वाच्चेति ग घ ङ ।

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472